पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशश्रश्नः ॥ भ०डी०-निमित्ततः स्वभावबलादित्यर्थः । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि। अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुममित्युक्तत्वानेति भावः ॥ ६४ ॥ अथोपजातिकया चतुर्थे त्यभेदं मुक्त्याख्यं वंदन्टयमुपसंहरति-शास्रास्फीति । ययस्मात्कारणाद्यागिनो । योगशास्रोक्तयोगाभ्यासखः । बांविषयेभ्योः भनः समाहत्य हरौ परमेश्वरे समाधाय संलनं कृत्वा । अनिश्चत्तिं देवंत्यजनेन परमेश्वरैकतया पुनरनुत्पत्तिं यान्ति प्राप्नुवन्ति । अस्मात्कारणातं योगिलय- मवान्तरभेदेनाऽऽत्यन्तिकं प्रलयं कृतीन्द्र वदन्तीति पूर्वश्लोकस्थमत्राप्यन्वेषणीयम्। ननु कर्मणामनन्तत्वानिवृत्तिर्न संभवति । तेषां भोगैकनाश्यत्वेन पुनरुत्पत्तेर्निरोभ्रम- शक्यत्वादित्यत आह-शानेति । ज्ञानमात्मज्ञानं तद्धेपो योऽमिस्तेन दग्धानि भस्मीकृतान्य खिलानि समग्राणि पुण्यानि च पापानि च यैस्ते तथा । यथैधांसि , समिद्धोऽग्निर्भ- स्मसास्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथेति भगवद्भक्त्या ज्ञानेन प्रारब्ध कर्मातिरिक्तकर्मणां भोगाभावेऽपि नाशसंभवादनिधृतिः संभवत्येव । प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्रामंमिमं कृत्स्नमवशं प्रकृतेर्वशादिति भगवदुक्तेश्च । प्रकृतेर्व शास्त्राचीनकर्मनिमित्तभावादेव कार्यानुपपत्तेरिति भावः । तथा चोक्तं 'भगवतायाम्- सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्धन्यधायाऽऽत्मनः प्राणीमास्थितो योगधारणाम् । ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्। । यः प्रयाति त्यजन्देह स याति परमां गतिम् । मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाऽऽप्नुवन्ति महात्मानः संसिद्धिं परमां गताः । अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । । यं प्राप्य न निवर्तन्ते तद्धाम परमं ममेति । चकारोऽन्य उक्तातिरिक्तः प्रलयो नास्तीति सूचकः । महाप्रलयश्च सर्वजन्तूनां मुक्तिः । सा तु न नः कदाऽऽप्यमीदृशं "जगदित्यायुक्या शास्त्रान्तरे निरस्तैवेत्युपसंहारव्याजनेनाऽऽ-इतीति । इत्युक्तप्रकारेण । तयः प्राणिनाशश्चतुर्धा चतुर्भेदात्मकः । अचेतनविनाशस्त्वेकरूष एव । भास्करावि रोधिनस्तु--नगशिलीमुखबाणभुजंगमज्वलनवनिरसेषुगजाश्वन' इत्यनेन व्यासः १०५० परिधिः ३२९८ ।४०४८ ! घातरूपश( च )क्राङ्गवहनिरसवेदगुणमितं पृष्ठफलमुक्तं न त्वन्यत् । तथा हि--नगेषु पर्वतेषु । शिलीमुखः सायकः । करवालोः वङ्गमिति यांवत् । न पतति यस्येति नगशिलीमुखः । पर्वतशत्रुरिन्द्र इत्यर्थः । बाणाङ्ग• यतीति बाणभूः । स चासौ जङ्गमश्च प्राणिविशेषः स्वामिकार्तिकेयस्तस्य ज्वलनं मुखं देवमुखत्वेन वर्तेः प्रसिद्धः । स्वामिकार्तिकेयस्य देवत्वावगमार्थं मुखवाचकं : ज्वल- नपदं लक्षणया दत्तम् । तस्य षडाननत्वेन ः प्रसिद्धः षट्संख्या वह्निरसेति यथा-