पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ४ गोलाध्यायै -- भ°ी०-ऽथाश्विनीस्थगृहस्थ कालान्तरे भरण्यादिस्थत्वदर्शनान्यथानुपपत्य ततोऽपरा श भिमुखं भपञ्जर इत्यादिनोक्तग्रहपूर्वगतिरसंगत अध्यक्षत्वभवादित्यतस्तामुपजातिकया द्रह प्रति-यन्त इति। खेटा ग्रहास्तस्य भषञ्जरस्यापरशीघ्रगत्या पश्चिमदिगभिमुखप्रवहवायुनेरिः तद्वक्षतरगया। षष्टिनाक्षत्रधष्टीसंबन्धिचक्रपरिवर्तरूपया,स्वस्वक्षायोजनामितप्रदेशात्मिकय यान्तो गच्छन्तः प्रत्यक्षोपलब्धाःभचक्रे । भपञ्जरपरिधिविशेषरूप क्रान्तिवृतात्मकेलघुपूर्वगत्या. अपरदिगभिमुखप्रवहवायुजनितकक्षायोजनमितगतेरतिन्यूनभूतया, पूर्वगत्या क्रान्तिवृत्तैकहें शप्रदेशेन यान्तो गच्छन्तोऽपि न भान्ति। पूर्वदिगभिमुखगमनकर्माश्रया,प्रहा इति प्रतीतिः प्रत्यक्षतो लोकानां न भवतीत्यर्थः । पश्चिमपूर्वगत्योस्तुल्यत्वे,ग्रहाणां चळनानुपपत्तेः । पूर्वगतेरधिकत्वे तु, पूर्वगमनस्य प्रत्यक्षत्वापया, पश्चिमामनस्याप्रत्यक्षत्वापतिरतो न्यून ४१९ गतेरभवापूर्यगतिः प्रत्यक्षतो न दृश्यत इति भावः । तुझगुन्नक्षत्राणां पूर्वगति- प्रेक्षवन्नास्तीति सूचितम् । ननु ग्रहाणां पश्चिमगतिः प्रवहवायुकृत, पूर्वगतिस्तु किंप्र युक्तेति चेन्न, । तस्यापरीघ्रगत्येत्यत्र , तस्येक्ष्यनेन परसंबन्धोक्तिवृgघुपूर्वगत्येत्यत्र परसंबन्धानुक्त्या, स्वत एव ग्रहाणां पूर्वगतेः सद्भावात् । । न च स्वशक्त्यैव नक्ष- त्रग्रहाः पश्चिमाभिमुखं यान्ति । पूर्वस्मिन्प्रवहवायुना, तस्य पूर्वाभिमुखगमनकल्पना- दिति वाच्यम् , भपञ्जरस्थानेऽपि प्रवहवायोः सत्वानक्षत्राणामपि महवपूर्वगत्युष लम्भप्रसङ्गात् । भपञ्जरान्तरिक्षावस्थानार्थं वायुकल्पनस्याऽऽवश्यकत्वाच्च । आधारग मनोपजीवययोर्वाय्वोः कल्पने तु गौरवात् । प्रहाणां पूर्वगतेस्तुल्यत्वापत्तेश्चप्रवहन पश्चिमो वायुरिति लघुवसिष्ठासिद्धन्ताद्युक्तेश्च । यद्यपि भपञ्जराधो अंहणां कक्षाक्रमेण स्वस्वाकाशे, गोलेऽवस्थानादन्तरिक्षे पूर्वगमनसंभवद्धचक्रे लघुपूर्वगत्या यान्त इत्युक्त मसंगतं, तथाऽपि स्वस्वकझगोले पूर्वस्मिन्नकाशमा। ग्रहाः गच्छन्तोऽपि कियच्चलिता इति प्रश्नोत्तरं गतिसंख्यज्ञानरूपं स्वस्वमार्गेण शक्युमतः पूर्वाबम्बावस्थानसमसूत्रण भपञ्जरे यत्स्थानं, चलितबिम्बस्थानसमसूत्रेण यत्रवस्थानं, तयोरन्तरसूत्रेण कान्तिवृत्तै- कदेशेन गतिज्ञानसंभवाप्रवहवायुसंबन्धेन समसूत्रेण ग्रहावस्थानं , भचकं युक्तमुत एव कक्षावृत्तं क्रन्तिवृत्तानुकारमित्युक्तं, युज्यते । ननु वस्तुतो ग्रहाः पूर्वस्मिञ्शक्त्या यान्ति, तवश्यं तत्पूर्वगमनस्य, प्रतिक्षणं दर्शनापत्तिः । पश्चिमतोऽधिकमात्रेणैव दर्श नविशेषदित्यत आह--कुलालचक्रभ्रमिवामगत्येति । इवशब्दो दृष्टान्तथोतकः । तेन यथा कुलालो, घटनिर्मापकः } तस्य यद्धटोत्पादकं चक्रे कीलस्थितमध्यकमन्त रिक्षस्थं सिद्धम् । तस्य य। दण्डजानित भ्रमो भ्रमणं , यद्दिगभिमुखं तदामा ;