पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगतवासना । १ १६ छन्तः, १००-तद्विपरीतदिगभिमुख, या गतिश्चक्रपरिध्यंशरूप, तया यान्तः स्वब्यापाराद्- कष्टाः पिपीलिकादयोऽणुरूपा जन्तुविशेष, न भान्ति । स्वव्यापाराद्च्छ न्तीति न प्रतिभाति । किंतु चक्रभ्रमानुकारमेव गच्छन्तीति भान्ति तद्वह अपि पूर्वदिशि स्वशक्त्यां गच्छन्तोऽपि प्रवह्नप्राबल्यात्पश्चिमदिश्येव ,गच्छन्तीति भान्ती- त्यर्थः । किमत्र मानमिति चेन्न । कुलालचक्रे भ्रमप्रागभावाद् यत्र कीटस्थानं, तत्र चिलं हत्वा, भ्रमविरतौ कीटदर्शनं, तत्रैव न भवति किंतु भ्रमविपरीतदिशि तच्चित्रात्कियताऽन्तरेण भवतीति प्रत्यक्षप्रमाणात् । ननु प्रहाणां पूर्वगतिकल्पने गौरवम् । लाघवात्प्रवहवायुकृतपश्चिमदिगभिमुखप्रत्यक्षसिद्धग्रहभ्रमेणैवाश्विन्यादिस्थस्य भर ण्यादिस्थत्वोपपत्तेः । तथा हि । भपञ्जरस्य प्रवहवायुना षष्टिनक्षत्रघटीभिः परिवर्त स्ततोऽधस्ताउछनिबिम्बं गुरु तेन भपञ्जरस्य नेतुमशक्यमिति नाक्षत्रषष्टिघटीभिः पूर्व भपञ्जरस्थानत्पूर्वतोऽवलम्बः शनेः । ततोऽधस्तात्क्रमेण गुरुभौमादयश्चन्द्रान्ता यथोत्तरं गुरुभूता इत्यधिकमुत्तरोत्तरं तेषां पूर्वतोऽवलम्बः प्रवहवायुकृतः । अत एव नक्षत्र- अEण में पाश्चमगतिः । तत्र नक्षत्राण्यतिशीघ्राण तदधःस्थाः शन्यादये यथैक्षरं मन्दगतय ( इति । तथा च सिद्धान्तसुन्दरे-भवलये प्रवहनिलवेगतो अमति स बुचरोऽपरदिङमुखम् । द्वतमपूर्वग्तीनमुखा ग्रहा गुरुतयाऽन्तरिताः किल पूर्वत इति । न चैवं बुधचन्द्रशुक्रभौमसूर्यगुरुशनीनां यथोत्तरं बिम्बाधिक्यवशेन गुरुताधिक्यातकमेणैव यथोत्तरं पूर्वतोऽधिकावलम्बनापतिः । नहि चन्द्रच्छे- ऋदयस्तथा येनोपपत्तिरिति वाच्यम् । उक्तक्रमानुरोधेन बिम्वमहत्त्वेऽपि कक्षर क्रमेण तद्धरुत्वभ्युपगमात् । अथेदमनुपपन्नम् । तेजस गोलकः सूर्यो ग्रहर्षाण्यम्बुगोळकां इत्यार्षवचनेनाधिकबिम्बे भूजलभागानामधिकानां सस्वाद्गुरुताधि- स्यात् । भूजलयोरेव गुरुत्वेन सूर्यस्य गुरुत्वाभावादवलम्बनानुपपत्तिवेति चेन्न । चन्द्रक्ष्यतिरिक्तग्रहनक्षत्राणां तैजसत्वाङ्गीकारात । चन्द्रस्य तु शृङ्गवेन्नत्वानुपपस्या जलमयत्वाभ्युपगमः । ननु हन्तैवं पूर्व सूर्यस्यैवावलम्बनानुपपत्तिरिदानीं तु चन्द्र व्यतिरिक्तनां सर्वेषां तदनुपपत्तिरिति सम्यक्वपक्षः समर्थित इति चेन्न । तैज सत्वेऽपि भूभागानां तत्रोपष्टम्भकत्वकल्पनेने गुरुत्वसिद्धेः । अथ गौरवेण ग्रहाणां गत्यपलrषः कथं युक्तः । चन्द्रमण्डलापेक्षया बुधंव्यतिरिक्तानामतिविस्तृतत्वेन तद- पेक्षया गुर्रताधिकत्वसंभावनया विधोः सकाशादकदीनमन्तरकलानामाधिक्यमेव स्यात् । सर्वत्रापि ग्रहनक्षत्रादिषु तेजो गोलरूपेषु पार्थािधस्योपष्टम्भकस्थ त्वयैव स्वीकारादिति चेत्सत्यम् । सर्वत्र कार्यानुसाराद्देवे निमित्तानुसरणमतश्चन्द्रमण्डले जलपृथिव्योरुभयोरपि