पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“ ७ सँ गोलाघ्थाथे भ०डी०-गुरुत्वाश्रयत्वेनोषष्टभ्योपष्टम्भकद्वयसमाजादधिकेव गुरुता । व्यादिषु च तैजसो गुरुत्वानाधारत्वादुपष्टम्भकपार्थिववयवमात्रगौरवेण तदपेक्षया लाधवान्मरुता लोष्टतृलपिण्ड योरिवाऽभ्रविलम्वाभ्यां प्रत्यङ्नयनात् । क्कचिदुपष्टम्भकस्य त्वयाऽपि स्वीकारात्तज्जाती यत्वेन ममाप्यन्यत्र “ तथा प्रकल्पनस्य केनचिदप्यवार्यत्वात् । न च चन्द्र बिम्बव्यासः साशीतिचतुःशती । रवेस्तु सार्धानि षट्सहस्राणि द्वाविंशत्यधिकानि । ततो विस्तृतत्वेन विधुमण्डलोपस्थितोपष्टम्भकझ्यापेक्षया रव्यादिमण्डलोपष्टम्भकस्य भूय स्त्वसंभवेन सूर्यादीनां चन्द्राद्रौरवाल्पतया असंभव इति वाच्यम् । तत्र तूलपिण्डा दिवद्विरलतयैवीपष्टम्भकस्वीकारात् । भौमादिष्वपि सर्वमपीदं तुल्यम् । अत्र केचित् । प्रकृष्टधर्मजत्वेन तैजसवेन चायोनिजत्वाद्वाल्यवायदोरभावादपि सर्वेषामप्यर्कलोक- बास्सम समशीरित्वमेघ । तथा चोपष्टम्भकमपि तत्र सममेवेति तुल्यगुरुत्वेनैव नावलम्बः । नं च प्रतीतिबाधः । तदभावेऽपि स्वकृत्यैव तदुपपत्तेः । अथ कथमेषु फले चरसाम्यम् । तेषु भवन्नय एव परिमाणान्यथात्वोपदेशादुपलम्भाच्चेति चेन्न । सत्तत्संसर्गितेजःप्रसरानुसारं तुल्यपरिमाणमण्यादितेजःप्रकर्षानुकर्जीवन्मण्डलान्यूनाधिक्यस्य संभवेन मण्डलाभिप्रायेणैव तथोपदेशात् । उपलभस्तु व्यवधानदोषाद्रम एवाऽऽहु- स्तन्न । यतोंऽरुन्धतीवसिष्ठयोरेकलोकोपविष्टयोरश्विन्यादितारागणस्य च प्रत्येकतारका स्वन्यन्यं व्यवधानतारतम्याभावेऽपि लघुत्वपृथुत्वोपलम्भेन तयोकनिवासिनामपि सम शरीरत्वमशक्यनिर्वचमेवेति । अन्ये तु विवादस्पदमर्कमण्डलमुपष्टम्भकशून्यमभिभूत गुणानधिकरणत्वाद्दीपवत् । यन्नैवं तन्नैवं यथा सुवर्णमिति व्यातेर्येतिरेकीयश्वम् । अभिभूतरूपस्पर्शायिधिकरणत्वादिति हेतुः । आदिपदशी चन्द्रवत्वं करकादौ व्यभि चारवारकम् । अन्यथा तत्रानभिभूतरूपस्पर्शयोः सत्स्वेनोपष्टम्भकशून्यत्वाभावेन व्याभि चारापतिरिति । तन्न । हेतोरसिद्धेः । आदिपदग्राह्यद्रवस्वधटितस्य हेतदृष्टान्तदी- पेऽभावाच्च । न प्रकृतहेतोः करकायामभवेन व्यभिचारः । तत्र द्रवत्वस्थ शीत- प्रतिबन्धत्वेऽप्यनभिभवादिति वाच्यम् । अभिभवे हि न सजातीयसाक्षात्कार- झणकृतमग्रहणम् । किंतु सजातीयस्थितितमेव साजात्यम् । न च गुणत्वसक्षव्या प्यजात्या .किंतु गुणत्वेनैव । तच्च द्रवत्वेऽप्यक्षतमिति न व्यभिचारः । यत्तु दीपादौ रूपस्यारुणकार्पलाभिभूतत्वासाधनवैकल्यमिति । तन्न । तत्र भास्वरत्वडयर्थजा त्यवच्छिन्नरूपस्य स्वीकारात् । अभिभवे हि घटादीन्न प्रकाशयेत् । अत एव तद्वतशुक्लत्वस्यैवाभिभवो न रूपस्येति निरस्तम् । प्रमाणाभावात् । एवं चोपष्टम्भका- भावाद्रौरवासिद्धौ कथं प्राग्गत्यपलाप’ इति । न च भीमश्चकादौ रूपानभिभवेऽपि