पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायै मी०-निर्मिसु गलप्रबन्धोद्यतो गोलस्वरूपज्ञानप्रतिपादकग्रन्थसंदर्भार्थ गोलबन्धार्थं वा । अग्रे तद्बन्धस्योक्त( त्वात् । अत एव पूर्व गोलनिरूपणस्य प्रतिज्ञातत्वाद्वितीया गोलबन्ध प्रतिज्ञा युक्ता । अन्यथा प्रातिज्ञायाः पुनरुक्तत्वापत्तेः । प्रवृशोऽस्मीति क्रियाघलादह- मिति कर्माक्षेपः । तथा चोपपत्तिज्ञानं प्रयोजकत्वाद्गलनिरूपणं व्यर्थ नेति भावः । ननूपपरिज्ञानार्थमुपपत्तिनिरूपणीया न गोल इत्यतः सूचितं कारण- माह--गोल इति । सा उपपचिः । गोळे निरूपिता गोले विमला निर्देषणा प्रत्य क्षप्रमाणात्दृश्यते ज्ञायते मोलस्वरूपविद्भिर्गणकैरिति शेषः । प्रत्यक्षप्रमाणात्कथं ज्ञायत इत्यतो दृष्टान्तद्वरेणाऽऽह–करामठकचदिति । हस्तस्थितामलकफलं चाक्षुषप्रत्यक्षेण निश्चित्य मम हस्त आमळकोऽस्तीति ज्ञानं ज्ञा( जा )यते तद्वद्गोलस्वरूपं निधिश्य तत्र क्षेत्रदर्शनस्थ सुशकत्वदुपपत्ति: सुरैया । तस्थ गणितपदार्थस्वरूपाश्रयत्वेनो पपत्तिस्त्ररूपत्वादिति भावः । अत्राऽऽसंलकनिदर्शनं गोलस्वरूपावगमार्थंमति ध्येयम् । ननूपपरिज्ञानप्रयोजककालनिरूपणमपि व्यर्थं प्रयोजनस्य प्रयोजनाभावेनोपेक्षाविषय- त्वादित्यत आह--उपपत्तिमिति । गणकः । ग्रहगणितज्ञः । उपपत्तं विना तङ् डुः त्पादनयुक्तिज्ञानव्यतिकेण । प्रौढसभासु । प्रौढाः सदसत्पदर्थतवक्षोदक्षाः । तेषां समाजेषु प्रौढिं सदसद्विवेचनदक्षत्वं नैति न प्राप्नोति । यथा च ग्रहणाद्याद्देश कर्तुर्गणकस्य तादृशस्य ग्रहणं कुतो भवतीत्यादिपण्डितप्रश्नोलरदानसामथ्र्याभावेन लोकमान्यत्वमतस्तदुपपत्तिज्ञस्य तदुत्तरदानसामथ्र्याछोकमान्यत्वमेवोपपरिज्ञानप्रयोजनं लोकमान्यत्वे तु तद्वचनप्रामाण्याचदाडिसक्रान्त्यादिपुण्यकाले प्रेक्षावतां स्नानदानाचरणे- पपत्तिरन्यथा तदनुपपत्या धर्मविलोपपत्तेरिति भावः । ननु तदुपपत्स्यज्ञा मान्य- गणकवचनादपि तद्धर्मचरणोपपत्तिीहणाद्यादेशसंवादबलेन तद्वचनप्रामाण्यनिश्चयादित्यत आह---निःसंशय इति । स्वयं ग्रहगणितशस्तदुपपत्तिज्ञानमन्तरेण निःसंशयो निर्गतः संशयो यस्य निश्चयज्ञानवान्न स्यात् । तथा च केवलग्रहगणितज्ञाने पूर्वग्रन्थानां कचिद्भदं प्रमाणं किमित्येतत्संशयभ्रमस्तत्त्वेन ग्रहणाद्यदेशकत्वासंभवेन धर्मानुष्ठानविलो पपरया तदुपपत्तिज्ञानेन तन्निर्णयज्ञानसंभवाद्देशसामथ्र्याच तदादेशवचनाद्धर्मानुष्ठानसंभव इति भावः इदानीं गोलप्रशंसया गोलानभिज्ञगणकोपहासं श्लोकद्वयेनाऽऽहं भोज्यं यथा सर्वरसं विनाऽऽज्यं राज्यं यथा राजाविवर्जितं च । सभा न भातीव सुवक्तृहीना गोलानभिज्ञो गणकस्तथाऽत्र ॥३॥