पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगतिवसन । २$ में०८०–एव कदाचित्रीचसने बळकाले किंचित्संनिहितत्वेन दर्शनं संभवति । चन्द्रस्यं जडस्याऽऽत्मजो बुधोऽहं ब्रह्मणस्तदुपरि दत्ताधिकारो लोके दृग्गोचरतायां लज्जामि । अतो मया दर्शनं न देयम् । कदाचिद्दर्शनमङ्गीकृताधिकारस्य पापस्योरुपातरूपं स्वसचाज्ञापनार्थमित्यन्ये । तथा च ग्रहणामवलम्बनकल्पने प्रवहभ्रमणदिशिवपरीतदिशि विषुवद्वृत्रमार्गे तदवलम्बनापतिभयेम याम्योचारादिशतिकल्पनमावश्यकमतो लाघवा स्वशक्त्या पूर्वगप्तिकरुपनं युक्तम् । वायुना समं भ्रमणस्योक्तयुक्त्यैर्घोषपादितत्वाद् वलबनासिद्धेः । न चैवं विषुववृत्तमार्गे स्वशक्त्या गच्छन्त प्रहाः कथं न दृश्यन्त इत्यत्रापि याम्योत्तरादिगतिकल्पनेनावलम्बनपेक्षया गौरवमिति वाच्यम् । कल्पादौ ब्रह्मणा विषुववृत्तक्रान्तिवृत्रसंपातरूपभपञ्जरप्रदेशसमसूत्रे स्वस्वमागें स्थापित ग्रहः कान्तिवृत्रं विक्षेप एव वा पूर्वमार्गेण गच्छन्तीति फरुपनाद्विषुवन्मार्गगमने मानाभावात् । किंच ऋमिकविरुद्धगतिद्वयमसंभवि । क्रियाविभागोचरं पूर्वदेशसंयोग नाशे सति वक्र एवोत्तरदेशसंयोगोपपत्तेः । उचरदेशस्य विशिष्येव करणत्वात् । नीचोच्चगतिस्तु क्रान्तिवृत्यादिसंबन्धाकाशमार्गत्वेन कल्पितवृशन्तरमार्गस्थत्वेनैव प्रहाणां स्वशक्त्या पूर्वगमनेनैवाने प्रतिपादितात घोढागतिमिरासाहऍवगतिः स्वत एकैव पश्चिमगतिस्तु प्रवहादिति तत्वम् । नन्वेवं ग्रहाणां योजनशतादिविस्तृतत्वेन यथा योग्यं जलतेजोगलखत्वेनाचेतननां परतन्त्रगतिसंभवेऽपि स्वव्यापारापूर्वगतिः कथं संभवति प्रमाणविरोधादिति चेत् । अत्र पूर्वाचार्याः । तेषां सूर्यादिपीतिकामादिश- तिपादनपरवाक्यैस्तैजसशरीरिन्चेतनत्वसिद्धौ प्रयत्नोपपत्तिः । प्रतेिः सुखरूपत्वेन चेत- नमात्रधर्मत्वात् । न च तद्वचयैर्मण्डलरूपाणां चेतनण(न) कथं सिद्धिरिति वाच्यम्। तदतिरिक्तत्वे मानाभावाद्रौरवाश्च । ननु भवतु चेतनत्वं तथाऽपि कथमेषां शरीरं बिम्बानुकारं कथं च योजनसहस्रादिभिर्विस्तारः । कचिदपि शरीरे तददर्शनादिति चेन्न । तत्र संसर्गितेजौन्तरस्य स्वीकरेणार्थस्योपपत्तेः । तथा हि । यथा मण्या- दिसंसर्गितेजस्तदर्भितः प्रसरद्वृत्तानुकारतामुपगच्छति दीपसंसर्गिप्रभारूपं तेजो वा दीपादभितो. मण्डलमाबध्नाति । तथैव ग्रहादिशरीरसंसृष्टमुत्कृष्टमहस्तत्तच्छरीरादभितो बिम्बानुकारतामापन्नमेवाविरतं प्रसरत्यत एव तस्य निग्धतथाऽवरुद्धत्वेन व्यवहित त्वाच्च विविच्यावयवादिकं न भासते. किंतु तेजोगोळा एव प्रतीयन्ते । व्यवहि तसहकारादौ शखासमुदाय इति । तथा च यस्य ग्रहस्य संसर्गमहीयसो महस भूयस्त्वादिरुत्कर्षस्तथा तथा तस्याभितः प्रसरः । अत एव तत्तत्प्रसंरानुसारं पूर्वापरौ-