पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलप्रशंसां । वादी व्याकरणं विनैव विदुषां धृष्टः प्रविष्टः सभां जल्पन्नल्पमतिः स्मयात्पटुबटुभ्रूभङ्गन्वक्रोक्तिभिः । हीणः सन्नुपहासमोति गणको गोलानभिशस्तथा । ज्योतिर्वित्सदसि प्रगल्भगणकप्रश्नप्रपञ्चोक्तिभिः ॥ ४ ॥ सष्टार्थम् ॥ ३ ॥ ४ ॥ म० डी०-ननु सूर्यसिद्धान्ताचार्यसंमतत्वेन मुहुर्राहणाद्यदेशसंव/बलेन च निश्चयज्ञानसंपाद नाददेशोपजीव्यधर्मानुष्ठानसंभवादुपपत्तिज्ञानवैयर्थेन गोलनिरूपणं व्यर्थमित्यत उपजाति काऽऽह -भज्यमिति। अत्र सिद्धान्तलेषु गोलानभिज्ञ भूगोलादिस्वरूपज्ञो गणको ग्रहगणि तज्ञस्तथा तद्वन्न भातिं लोके न चमत्करोति । तथेत्यनेन सूचितं दृष्टान्तमाह-भोज्यमिति । सर्वरसं रसोपलक्षणात्सर्वसामभ्युपपन्नं भोज्यं धृतव्यतिरेकेण न भाति । ननु भोज्य पदार्थेषु घृतस्य मुख्यत्वं न युक्तम् । मधुररसविवर्जितं च भोज्यमिति लक्षो या विनिगमनाविरहादित्यस्वरसाइदृष्टान्तान्तरमाह--राज्यमितिं न च वाणें । ननु नियन्तारं विना राज्यस्य सेपद्रवत्वसंभवाद्राज्ये राज्ञो मुख्यत्वं, म तथा गणी गोळाभिज्ञत्वं मुख्यम् । आदेशादिव्यवहारस्योक्तरीत्योपपत्तेरिति दृष्टान्सन्तिफयो- वैषम्यमित्यस्वरसाद दृष्टान्तान्तरमाह--सभेति । सुवक्तृहीना । सुष्टु वदतीति । समानाधिकरणयुक्तिवचोवदद्भिः पण्डितैहींना सभा पण्डितसभा । इव यथार्थं } तथा च साधारणपाण्डितसभा लोके मनोहराऽप्यतिपाण्डितश्रयेणातिमनोहरा । तथा केवलग्रहगणितलैर्यवहारसिलुवापि गोलज्ञतमोपपत्तिज्ञानाधिक्याद् गोलभिज्ञगणकस्तेभ्योऽ धिक इत्यधिकत्वसंपादनार्थं गोलनिरूपणमव्यर्थमिति भावः ॥ ३ ॥ नन्वधिकृत्वानपेक्षया तन्निरूपणं व्यर्थमेव । अन्यथा श(श्रान्तरप्रमेयज्ञाना दधिकत्वसिद्धेस्तस्यापि निरूपणपात्तिरित्यतः शार्दूलविक्रीडितेनाऽऽह---वाहीति । गोलानभिज्ञ गणकोः ज्योतिर्वित्सभायाम् । ज्योतिर्विभुपदेन सर्वे सभासव गोलाभिज्ञाः । नक्षत्रादीनां गोलाश्रयत्वात् । अन्यथा नक्षत्रसामान्यज्ञानात्सर्वेधां तव पत्तेः । प्रगल्भगणकप्रश्नप्रपञ्चोक्तिभिः । प्रशल्भाः कल्पका ये गणका गोलस्वरू पतत्वज्ञास्तेषां प्रश्रः पूर्वपक्षास्तत्संषन्धिन्यो याः प्रपश्वोक्तयो नानाविधभङ्गिभिर्वचनानेि । उपहासगर्भितानि तैरित्यर्थः । हीणो लतः । तदुत्तरदानासमर्थत्वात् । सन् साधुः । दुष्टस्य स्वाज्ञानाज्ञत्वेन लज्जानुदयात् । उपहासं तथा दृष्टान्तवत्प्राप्नोति । दृष्ट- न्तमाह-यदीति । तर्कशाखादैिवादी । व्याकरणं विना व्याकरणव्यतिरेकेण । विदुषामेव । एवकारान्मूर्वव्यवच्छेदः । सभां धृष्टः सन्प्रविष्टः स्मयाद्गर्वादजल्प त्रसंगतार्थ पण्डितोंर्पहासपूर्वकं वदन् । अल्पमतिः स्वाज्ञानगोपनासमर्थः । विदुषां