पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुंयोपतेि चासनी। १३५ म०डी०एवमधुराज्यासाधनप्रकारेण । सुधिया गणकेन । अभीष्टजीवा अभीष्टांशानां ज्या विधेयाः सिद्धाः कार्याः । अयमर्थः। स्वेच्छया यन्मिता ज्या इष्ठास्तत्सं ख्यया । नवत्यंशास्तत्कल वा भT, यद्वक्षं तदन्तरेणाभीष्टा या उक्तरीत्या साध्याः । सुधियौत हेतुगर्भम् । तेनार्धशज्याप्रकारेण तदन्तर भावेन यत्र ज्या सिध्यति सपेक्षणीया । यत्र च . तदन्तरे नोक्तप्रकारेण ज्यासिद्धिस्तत्र पूर्वापर ज्याभ्यामनुपातेन ज्या साध्येति सूचितम् । तत्रोदाहरति-त्रिषडिति । यथाऽत्र ग्रन्थे चतुर्विंशतिजीवाकल्पनेन त्रिषटसूर्यजिनादयश्चतुर्विंशतिजीवा उक्तरीत्योपपनाः । पञ्चचत्वारिंशदंशज्याया । अर्धज्यासधनरीत्या . घडी तृतीया जीवा भवति नान्या । तदुद्देशेनैक्षविंशत्यष्टादश्योर्जीवयोरुद्देशः । कोटि ज्याया उपजीव्यत्वात् । । एवमष्टदया नवमीष्टांशानां ज्याज्ञानासंभवादनुपात स्यात्रासंगतत्वादित्यतः प्रकारान्तरेण सूक्ष्मजीवाज्ञानमाहबिथोऽथवृत इति। त्रिज्या मितव्यासार्धेन कृतवृत्ते । भगणाऽतेि । द्वादशराशिकलाविलाभिरकिते । अभीष्टा जीवा विशणय्य गणयित्वा ग्राह्याः । एतदुक्तं भवति । समभूमौ त्रिज्यामिते च व्यासार्धेनेष्टं वृत्तं भांशाद्यतितं कार्यम् । तत्र वृतमध्ये ऊर्वोधरा तिर्थङ्करेखा कार्या । रेखासक्तपरिधिभागप्रदेशादुभयत्र समान्तरेण चितं कार्यम् । तच्चिह्नावधि ऋज्वी रेखा तदन्तःस्थितपरािर्धभागनां संपूर्णज्या । तदवें सूत्रमूर्धरेवैफतरचिह्न योरन्तरूपं रेखापरिधिसंपाततडिचह्नान्तरपराधप्रदेशास्थितं भागानामर्धज्या तन्मापकेन त्रिज्या . सन्मापकेनैव गणयित्वा चेयमेवं स्वेच्छयाऽभीष्टांशानां सूक्ष्मज्या सिध्य तीति ॥ ६

अथ ज्योत्पातः । आचयणां पदवीं ज्योत्पत्य ज्ञतथा यतो याति । विविधां विदग्धगणकप्रीत्यै त भास्करो वक्ति ॥ १ ॥ इष्टाङ्गुलब्यासलेने वृत्तं कार्यं दिङ्गकं भलषाङ्कितं च । न्यासंख्ययाऽऽप्त नवतेर्देवा ये तदाद्यजीवाधनुरेतदेव ॥ २ ॥ द्विघ्यादिनिधनं तदनन्तराणां चापे तु दत्त्वोभयतो दिगङ्गात् । ज्ञेयं तदश्रद्वयवद्धरज्जुरेषं न्यका निखिलानि चैवम् ॥ ३ ॥ अथान्यथा वा गणितेन वच्मि ज्यार्धानि तान्येव परिस्फुटानि। त्रिज्याकृतिर्दार्णवर्णहीन मूलं तदीयं खलु कोटिजीवा ॥ ४ ॥ दोःकोटिजीवरहिते त्रिभज्ये तच्छेषके कोटिभुजोक्रमज्ये । ज्याचापमध्ये खलु योऽत्र बाणः सैवोस्कमज्या सुधियाऽत्र था ॥॥