पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योत्पत्तिवासना । ४४३ भ०डी०- यतो ज्ञातया सम्यगवगतस्वरूपया ज्यौपस्या गणक आचार्याणां वराहमिहराचार्यादीनां पदवीं स्थानं तत्तुल्यत्वं याति प्राप्नोति । ज्योत्पत्रोरतिदुर्गमत्वात् । यथा च गौडदेशादौ शनोत्कर्षसंपादनेन पण्डितानां भट्टाचार्यपदवीलाभः । अतः करणासां ज्योत्पत्तिं भास्करः सिद्धान्तशिरोमणिकर्ता वक्ति निरूपयति । भास्करो वक्तीति परोक्षेयं अन्थान्तर्गततया न गणनीया । किंतु भिन्नग्रन्थत्वेनैव । अन्यथा प्रश्नध्यायानन्तरे संगत्यभावबारणाथ भारतदार म्भानुपपत्तेः । ग्रन्थान्तर्गतस्वरुपज्योत्पत्तिनिरूपणानन्तरं तदारम्भोपपतेश्च । अत एव भिन्नमन्थत्वेनान्यवतशङ्कवारणाय भारोपादानं संगच्छते । तत्तु तन्निरूपणेन तत्कर्तुस्तज्ज्ञानादाचार्यपदप्राप्तिसिवायुद्धयु )त्तरं । तज्ज्ञानस्य पूर्वत्वाभावादितरेषां न तत्पदप्रतिसंभावनेति तदनिरूपणे तस्या गुप्तत्वेन येनैघ युद्धया साऽवगता स एव तत्पदं प्राप्नोत्यतस्तन्निरूपणं व्यर्थमेवेत्यत आह-विदग्धेति । विदग्धा गोलादिस्वरूपतवश गणकः पक्षमस्रदशास्तादिक्षेत्रसूक्ष्मगणितप्रकारशास्तेषां संतोषार्थम् । तथा च ग्रहगणितोपपत्तेरॉल एव व्यक्तत्वेन तस्य च विमा ज्यानिरूपणं वक्तुमशक्यत्वाद्वलस्वरूपसर्वस्वा ज्योंत्परिरेव प्रथमं निरूपणीया । एवं . तन्निरूपणेन च तज्ज्ञानासुबुद्धीनां तद्विषयेऽधिकबुद्धिस्फुरणात्प्रकारान्तरेणापि तन्निरूपणमर्थसंभवात्चत्पदप्राप्तिः सुशक्या । अत एव प्रीतिः । अनेनैव चाऽऽश्रु- निका गणका नामाचार्यं वदन्तीति भावः ।ननु तथाऽपि प्रन्थे ज्योत्पनेरुक्तत्वात्पार्थक्येन पुनस्तान्निरुपणं न युक्तमत आह--विविधमिति । पूर्वानन्थे पूर्वोक्तानुरोधेन संक्ष- सक्तस्तामिदानीं स्वबुद्धिवैभवेनानेकप्रकारेण विस्तरतो वदामीति भावः ॥ १ ॥ अथ तत्र ज्यारूपप्रतिपादनच्छलेने ज्याज्ञानमुपजातिकेन्द्रवजाभ्यामाह-इष्ट इण्टेति । द्वित्र्याति। त्रिज्योत्थवृत्ते ' भगणाइकिते वेत्यादिपूर्वोक्तज्योतपर्यवसानार्ध विवरणरूपतया गतार्थमतत् ॥ २ ॥ ३॥ अथोक्तप्रकारेण ज्यासिद्धः शिल्पावगमत्वेनाशयेति गणितेनोक्तं पूर्वज्या- शनं पुनर्वक्तुं तत्प्रतिज्ञां तदुपयुक्तां कोटिज्यां चोपजातिकयाऽऽह-अथेति । अंथ ज्यास्वरूपद्वारा तज्ज्ञानप्रतिपादनानन्तरम । अन्यथा । अन्यरीत्या वा । चूसकरणादिनिरपेक्षेण । तर्हि तदसिद्धिरेवेत्यत आह--गणितेनेति । वच्मि कथयामि । ननूक्तप्रकारेण सूक्ष्मं ज्यशनं गणितेन तु स्थूलं सिध्यतीत्यतः आह--तान्येवेति । तानि पूर्वावगतानि । एवकारानद्भिन्नत्वनिरासः परिस्फुटानि सूक्ष्मा पीत्यर्थः । उत्तरार्ध पूर्व व्याख्यातमेव ॥ ४ ॥ अथ तदानयनपयुक्तोत्क्रमज्यानयनं तत्स्वरूपं चेन्द्रवज्ञयाऽऽह-शेकोटीति । अत्र वृतान्तः । एवकारादुत्क्रमज्याया उक्तातिरिक्तस्वरूपनिरासः । अत्र अंहगणितादौ । सुधियेति हेतुगर्भम् । तेनार्धज्यावद्युत्क्रमज्याधं ज्येति सूचितमन्यत्पूर्वमर्षे त्याख्यातम् ॥ ५ ॥