पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गलयाये म० टी०–गणितं न वेत्ति न जीनाति स पिपठिषुगणादिी गोलयन्ने प्रश्नोत्तरं कथं केन प्रकारेण ज्ञास्यति न ज्ञास्यतीत्यर्थः । तथा च विना ग्रहगणितज्ञानं गोलज्ञानं सम्यङ् न जायते । तदाभासज्ञानं भवत्यसो ग्रहगणितं प्रथमं निरुष्य गोलनि रूपणं कृतमिति भावः । एतेन सिद्धान्तसुन्दरे गोलाध्यायानन्तरं ग्रहगणितनिरूपणं कृतं तदपास्तम् ॥ ६ ॥ इदानीं ज्योतिःशनश्रवणाधिकारिरक्षणमाह द्विविधगणितमुक्तं व्यक्तमव्यक्तयुक्तं तदवगमननिष्ठः शब्दशास्त्रे पटिष्ठः। यदि भवति तदेदं ज्योतिषं भूरिभेदं प्रपठितुमधिंकारी सोऽन्यथा नामधारी ॥ ७ ॥ स्पष्टार्थम् ॥ ७ ॥ म७८०-अथ वादीत्यादिश्लोकत्रयसिङ गोलाध्यायपिपठिष्टस्वरूपं लाघवान्माळिन्याऽऽह-- द्विविधेति । द्विविधगणितं प्रकारद्वयेन गणितमुक्तम् । अस्मिन् ग्रन्थे निरूपितम् । प्रकारद्वयं स्फुटयति---व्यक्तमिति । व्यक्तं पाटीगणितम् । अंव्यक्तं बीजगणितं तेन युक्तं सहितम् । पाटीगणितं बीजगणितं चेति । तथा च ग्रहगणितनिरूपणानन्तरं प्रक्रियोपयुक्तत्वेन , पाटीगणितं निरूप्य तदनन्तरं प्रहगणितविशेषोपपत्त्युपयुक्तवेन बीजगणितं पाटीगणितोपजीव्यं निरूपिलमित्यर्थः । उक्तोपयोगमाह--तदवगमननिष्ठ इति । तयोर्गणितयोरवगमनं ज्ञानं तत्र निष्ठा निश्चयो यस्य तज्ज्ञानवानित्यर्थः । तयोर्जन्थमध्ये स्थितत्वात्तच्छब्दावेव ग्रहगणितज्ञानवांश्चेति सिद्धम् । शब्दशास्त्रे ठ्याक रणे पटिष्ठः । अतिशयेन पटुः कुशलः । व्याकरणशास्त्रतत्वज्ञ . इत्यर्थः । तादृशो यदि भवति तदा तर्हि स पिपठिषुः, इदं प्रसिद्धं ज्योतिःशा भूरिभेदं गोल यन्त्रं प्रक्षाध्यायात्मकग्रन्थैकदेशं प्रपठितुं तत्त्वं ज्ञातुमधिकारी । अन्यथोक्तस्वरूपाभावे नामधारी । तत्पिपठिषुः केवलं भवति न तत्तवज्ञानेच्छुः । तादृशस्यायं ग्रन्थंक देशो दुर्जेय इत्यर्थः ॥ ७ ॥ अथ व्याकरणवर्णनमाह यो वेद वेद्वदनं सदनं हि सभ्य- बाह्याः स वेदमपि वेद किमभ्यशास्त्रम् । यस्माद्तः प्रथममेतदधीत्य वेभि ईशाखान्तरस्य भवाति अघणेऽधिकारी ॥८॥ पgrथ्य ॥ ८ ।।