पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेद्यकाधिकारः १६९ म०डी०-भक्ताय शिष्याय चिरोधिताय गुणोपपन्नाय च देयमेतत् । भ्रात्रे च मित्राय च सूनवे च सुदुर्लभं छेद्यकगोलतः । सिद्धान्तशेखरोक्तेश्चेति भावः । ननु उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यंते । इत्युक्तत्वाद्द्वेष्याद्युक्तानामपि देयामित्यत आह-स्यादिति । इमामुक्तां सीमां नैतदूदोषीत्यादिमर्यादमुज्झतस्त्यक्तुब्रह्मणस्याऽऽयुःसुकृतक्षयः । आयुदय एतच्छरों रसद्भावसंबन्ध्यबगतकालोपाधिरूपः । सुकृतं स्वार्जितपुण्यमैहिकं पूर्वजन्मार्जितं वा अनयोनशो भवति । ननु त्वदुक्तसीमोल्लङ्घनेन अथमायुःसुकृतक्षयः संभवतं अन्यथाऽतिप्रसङ्ग इत्यत आह--मुनिकृतमिति । वसिष्ठाषिप्रणीतम् । तथा च न क्षतिः । न च न मां ब्रूयादवीर्यबती तथा स्थार्मितिं श्रुत्या विद्याया नैर्घ- ल्यस्यैवोक्तत्वादायुः सुकृतक्षयौक्तौ श्रुतिविरोध इति वाच्यम् । यो यस्य दुःखं ददाति स तस्याशुभं नाशं च वाञ्छतीति नियमादृषेिभिः श्रुत्यर्थंध्यङ्ग्यस्यैवोक्त त्वात् । नन्वेवच्छरीरारम्भकाणां कर्मणां प्रारब्धकर्मत्वात्तेषां च भोगैक्यनाश्यत्वेन तेषां सर्वेषां भोगार्थं यः कालः स एवाऽऽयुःसुकृतक्षय इत्यस्याऽऽयुषाऽर्जितं यत्सुकृतं तस्य क्षय इत्यर्थान्न किंचिद्विरुद्धमिति वाच्यम् । प्रतिकञ्चुकवृकृतनविंद्विद्वामिताधार्मिकमूर्वदुर्जनिभ्यः । इह तन्त्ररहस्यमप्रमेयं ददतः स्यात्सुकृतायुघः प्रणाशः ॥ इति श्रीपत्युक्तविरोधादिति चेन्न । आयुषोंऽहृष्टरूपत्वान्नाशोपपत्तेः । काल- संकोचेनैव तद्रोगाङ्गीकारात् । इन्द्रपदभोगकालस्य नियतत्वेऽपि नहुषस्येन्द्रपदम् च्युतेः शापात्सद्य एवं पुराणादौ श्रवणाच्च । अत एव न हीदृशमनायुष्यं यद- न्यस्त्रीनिषेवणमिति याज्ञवल्क्योक्तिः संगच्छते । अन्यथा नीतिशास्त्रस्य व्यर्थताप- तेरिति संक्षयः ॥ ९ ॥ इदानीं विलिख्य च्छेद्यकमाह त्रिभज्यकासंमितकर्कटेन कक्षाख्यवृत्तं प्रथमं विलिख्य । तन्मध्यतो मध्यमखेटगृहितिथ्यंशमानेन महीं सुवृत्ताम् ॥ १० ॥ -कक्षाख्यवृत्ते भगणाङ्कितेऽत्र दत्वोच्चखेटौ क्रियतोऽथ रखा। कुमध्यतुङ्गपरिगा विधेया तिर्यक् ततोऽन्या सुधिया कुमध्ये ॥७॥ उच्चोम्मुखीमन्यफलज्यकां च दवा कुमध्याद्विलिखेत्तदग्रे । त्रिभज्ययैव प्रतिमण्डलाख्यं सैवोच्चरेखा त्वपराऽत्र तिर्यक् ।।१२॥ तुङ्गध्र्यरेखा खलु यत्र लझा तत्रोच्चभस्मिन् प्रतिमण्डलेऽपि । ततो विलोमं खलु तुङ्गभागैर्मेषाद्रिरस्मात्खचरोऽनुलोमसू ॥१३॥