पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ गोलाध्याये ९५ eडी०-स्यादित्यर्थः । एतत्कोटिमूलसंबन्धिकवृतमध्यस्थतिर्यगूर्धदेशभूमध्ययोरन्तरं भुजज्या तुल्यं भुजः। तयोरुक्तकटिभुजयोर्वर्गयोगात्पदम् । कुमध्यप्रतिमण्डलस्थदृष्टान्तरे । कुवंशस्य मध्यं बिन्दुस्थानम् । प्रतिवृत्तस्थग्रहचिह्नं तयोरन्तरे रेखरूपः कर्णः स्यात् । कर्षोपयोगमाह--स्पष्टसँग इति । हि यतः श्रुतिसूत्रसते कर्णाकारेण यत्सूत्रं तत्सं लग्ने । कक्षावृत्रपारध्येकदेशस्थाने स्पष्टग्रहः । अतः कर्ण आवश्यक इति भावः । ननु किं नाम स्पष्टत्वमत आह-दृश्य इति । यत्र ग्रहः कक्षावृतप्रदेशे भूग भस्यैदृश्यस्तत्स्थाने मेषोदितो यो भोगः स २पष्टो ग्रहभोग इत्यर्थः । अयं भावः । प्रहस्य कक्षावृते भ्रमणाभावाप्रतिवृत्ते तद्भ्रमणङ्गर्भस्थैः प्रतिवृत्तस्थो प्रहः स्वदृ सूत्रेण यवक्षाप्रदेशसमसूत्रेण दृश्यते तत्र पयो ग्रहभोगः । यद्यपि प्रतिवृत्तस्थो अहोऽहर्गणानुपात सिद्ध एव दृश्यते तथऽपि प्रतिवृत्ते क्रान्तिवृत्तानृसुतराझ्यङ्कना भावत्तद्राशीनां कल्पितत्वात्प्रातिवृत्तस्थग्रहभगः फलदेशार्थमनुपयुक्तः । दृक्सूत्रं तु कर्ण एव । तत्साधनाथे स्पष्ट, कोटिः क्ळ्प्ता । यद्यपि भूगमें मनुष्याणामभाव- स्तथाऽपि पृष्ठसमसूत्रसंबन्धेन तदूगर्भ तेषामवस्थानानि क्षतिः । फलस्वरूपमाह -- फलमिति। चकारस्त्वर्थः । तेन फलमित्यस्यान्ब्य उत्तरत्र सुबोधः । कक्षावृत्रस्थ मध्यस्फुटग्रहचिह्नयोर्मध्येऽन्तराले कक्षावृत्तपरिक्ष्येकदेशे । फलस्य तद्धनर्णतास्वरूपमाह मध्य इति । केक्षावृत्ते स्पष्टग्रहस्थानान्मध्यग्रहाचहने । अग्नगे राशिक्रमानुरुद्ध मार्गेणाग्निमभागस्थे तत्फलणं ततस्तस्मिन्मध्यग्रहभोगे क्रियते । घाश्चिमभागस्थे धनं क्रियते । चकारोदुक्तरीत्यैव मन्दफलं ’ शीघ्रफलं मेधावितुलादिकेन्द्र णधनं धनर्ण स्पष्टीचिंकाराक्तं सिंद्धमित्यर्थः ॥ १७ ॥ इदानीं मन्दस्फुटं मध्यमं प्रकल्प्यं घिफी यत्स्यते तदुपपतिमाह- मध्यो हि मन्दप्रतिमण्डले स्वे मन्दःफुटो द्रप्रतिमण्डले च । भ्रमरयतश्चञ्चलकर्मणीह मन्दस्फुटो अध्यखगः प्रकल्प्यः ॥ १८ ॥ मन्दकर्मपूर्वकं शीघ्रकमैयेतत्षष्ठार्थम् ॥ १८ ॥ भ०डी०-ननूक्तयुक्त्या भौमादिफलक्रमानुपपत्तिः । तथा हि । उक्तरीत्या मन्दशीघ्रोच्चयोः कक्षयां दानात्तदभिमुख स्वान्यफलज्याचह्नाभ्यां मन्दशीतुिप्रतिवृत्तसंबंघिकर्णसूत्रसंबन्धेन कक्षावृत्रे स्पष्टग्रहस्थानद्वयम् । तत्र मध्यग्रहचिह्नं मन्दप्रतिवृत्तसंबन्धेन कक्षावृते यदन्तरेण स्पष्टग्रहस्थानं तदन्तरं मन्दफलम् । मध्यप्रहचिह्नाच्छेष्ठमतिवृत्तसंबन्धेन फ़्रवृत्ते यदन्तरेण स्पष्टग्रहस्थानं तदन्तरं शीघफलम् । तथा च भौमादीनां फलंदयस्य मध्यग्रहाद्युत्पत्तेः । केन फलेन अहस्पष्टत्वं ज्ञेयमेकेन तदन्यतरेणेति चेत्तदित-