पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९ भोलाध्यायै- अsटीe-मनु मन्दीधफलवासनयोक्तरीत्या भेच्छम्रफलानथुने कर्णानुपातवन्मन्दफलान यने कर्णानुपातः कथं नोक्त इत्याशङ्काया उत्सरमिन्द्रवनोपजातिकाभ्यामाह-स्वल्पेति । इह ग्रहगणितग्रन्थे । मृदुकर्मणि मन्दफलानयने के इर्णमन्दकर्णानुपातः । स्वल्पान्तरत्वात् । विना तदनुपातं यरफलं तदनुपाताच यत्फलं तयोरल्पान्तर त्वाद्यतो मन्दफलमेवाल्पमित्यर्थः । तथा च यत्र । परमफलासनं फलं तत्र कर्पस्य त्रिज्यासमवेनारुपान्तरं यत्र च कर्णस्य बहन्नन्तरेण । त्रिज्यातोऽधिकत्वं न्यूनत्वं व तत्र फलस्यैवाहपत्वेनाल्पान्तरमिति भावः । यथा भौमस्यान्त्यफलज्॥ २३२० भुजज्या ११८ भुजफलं २२ । ५६ । ४० मन्दुफलांशः १० । ५८ । २० । कर्णा११८नुपाताळुजफलं २३ । २० । मन्दफलांशः ११ । १० । अनयोरन्तरं द्वादश कला इत्यल्पमन्तरमिति । न कृतो नोक्तः । इत्येवं प्रकरेण मन्द कणनुपातानुक्तं केचिदुपपात्तिज्ञा गणका वदन्ति, अङ्गी कुर्वन्ति । अथात्रस्मादूनस्य देशान्तरोदयान्तरभुजान्तरस्वरादिकस्य संस्कारो दजलाञ्जलिकः स्या- दित्यस्वरसात्केचिदित्युक्तसूचीताद्ब्रह्मगुप्तोक्तं तत्समाधानमाह-त्रिज्योद्धूत इति । कथं मन्दकर्णानुपाते कृते । अपिशब्दाक्ष तत्कृतो मन्दफले विशेष इत्यर्थः । ननु सदा मन्दफलस्यानियतत्वेन त्रिज्यातुल्यत्वाभावान्मदफले तत्कृतविशेषो युज्यत एवे त्यसो हेतुमाह--त्रिज्येति । यतः कारणात्र मन्दकर्मणि परिधिः प्रागुक्तमन्दप- रिधिर्मन्दकर्णगुणाखिज्याभतः सैफुटो मन्दपरिधिर्भवति । तादृशपरिधेः पुनः स्वेनाऽऽ- हतं परिद्धेनेत्यादिना भुजकोटफळामयनं समुचितम् । तेन कारणेन : आथतुल्यं उक्तपारध्यानीतं फलं मन्दफलमायाति । एतदुक्तं भवति । £ । ये प्रागुक्ता मन्दप रिधयस्ते कक्षावृत्ते त्रिज्याव्यासार्धप्रमाणेन सूर्याथात्रैर्युक्तः कर्णव्यासार्थं प्रमाणे- नापेक्षिताः । ग्रहण कर्णाग्रे स्थितत्वात् । नहि व्यवाधिकरणपरिधना फलानयनमुचितम् । येनोपरिध्यानीतं फलं युक्तं स्यात् । अतविघ्याव्यासार्थं । उक्ताः परिधयस्तदा कर्णध्यासाठं का इत्यनुपातेन कर्णव्यासार्धवृत्तरूपस्फुटकक्षा प्रमणेन परिधयः । अत्र मन्दनीचोच्चवृत्तं कर्णाने न किंतु त्रिज्याने । अन्य थोक्तरीत्या फलानयनानुपपत्तेः । परमेतावन्विशेषस्व्रिज्याव्यासार्थवृत्ते मध्यग्रहस्थेनम ध्यान्मन्दनीचोच्चवृत्तं मन्कर्णवशाद्बृहल्लघु भवति तादृशपरिधिना तद्वृत्ते भुज- कटिफले कार्यं । एवमत्र कणscयसकृत्साध्यः । पूर्वकर्णाज्ञानादिति ज्ञेयम् । तथा व स्थिरमन्दकर्णान्मन्दपरिघः साध्यस्तस्माद्भजतौटिफले संवृते स्थिरे ग्रहस्फुट क्रियोपजीव्ये ताभ्यां कर्णानुपातेन फले मान्दे स्फुटे। अतः पूर्वमुक्तपरिधेः स्फुटत्वार्थं