पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गलस्वरूपप्रभः । १३ . किं दृक्कर्म तथोद्यास्तसमये देश विदध्युर्बधाः सर्वं मे विमलं वदामलमलं गेलं विजानासि चेत् ॥ ४ ॥ अत्र किं देशान्तरमुद्गमान्तरमित्यादि यत् पृष्टं तत् सर्वं में विमलं यथा भवति तथा वद । यद्यमठं बलादिसुकविरचितं गोलमलमयर्थं विजानांसि । शेषं स्पष्टम् ॥३४ भ०डी०-अथ भचक्रसंस्थानमूलकत्वेन मंहगणितजातं सामान्यतो निस्यं गणतयाऽपि तन्निराकर्तु शार्दूलविक्रीडितेन प्रश्नानाह--संसिद्धेति । संसिद्धात्सम्यगदुष्टत्वेन सिद्धसाधितायुगणादहर्गणात् । कथितकल्पगतोऽर्कर समगण इत्यादिनोक्तादहर्गणावुपपत्तिसिद्धत्वेनादुष्टादित्यर्थः । युगादिभगणैः । ग्रहा णामुक्तयुगसंबन्धिभगणैर्दादशराशेभोगपर्यायैः । आदिपदकल्पसूर्यसिद्धान्ताभिमतसू- घ्यादिभगणैरित्यर्थः । अत्र युषहणं शिष्यधीवृद्धिदतन्त्राभ्यासास्कृतमिति ध्येयम् । अनुपातेन प्रमाणमिच्छा च समानजाती आद्यन्तयो: स्तः । पलमन्यजातीत्युक्तवैराशिक- विधिना यो ग्रह द्युचरचकहत इत्याद्युक्तप्रकारसिद्धः । तस्य ग्रहस्यास्फुटताऽस्पष्ट त्वमवास्तवत्वं कथं भवति । अहर्गणभगणकुदिनानां वास्तवत्वात् । तज्ज्ञनितो ग्रहः स्पष्टः कथं न स्यान्मध्यः कुतों ज्ञात इत्यनेन मध्यमाधिकारः खण्डित इति भावः । नन्वनुपातानीतग्रहस्याऽऽकाशे संवादाभावादेव फलवलकल्प्यं मध्यमत्वमतो न तदधिः कारवैयर्थमित्यत आह---कथमिति । अथ यथाकथंचिदसंवादप्रहस्य मध्यमत्वे स्थापितेऽपि स्पष्टीकृतिीहाणामुक्ता स्पष्टक्रियैकचैकप्रकारेण कथं नक्ता । यथा सर्वे मध्यग्रह एकानुगतानुपातेनोक्तास्तथा ते स्पष्टग्रहा अप्यनुगतैकानुपातेन नोक्त इति । भिन्नभिक्षाव्यवस्थितानयनकल्पने भानाभावात्संवादस्य कादाचित्कत्वेन स्पष्टाधिकारस्त्वयुक्त इति तद्देयर्थमिति भावः । ननूक्तस्पष्टाक्रियया ग्रहाणां संवादा- वश्यंभावस्पष्टाक्रियाप्रतिपाको ऽधिकारो न व्यर्थ इत्यत आह--किमिति । देश- न्तरं मध्याधिकारोक्तं किं किमर्थम् । व्यर्थमित्यर्थः । अहो इत्याश्चर्यं । उद्रमा- न्तरमुदयान्तरं ग्रहाणां स्पष्टाधिकाराक्तं किमिति काल्पितम् । पूर्वग्रन्थे तस्यानुक्ते- स्वंया स्वबुद्ध्या यत्कल्पितं तदप्ययुक्तम् । प्राचीनोक्तस्य संस्थानमेवः संप्रति दुर्घटं जातमस्ति, कथमनेन स्वकल्पितमधिकमुदयान्तरं ग्रहाणां कृतमिति महद अर्थपदम् । बाह्वन्तरं भुजाख्यं यद्ग्रहणमुक्तं तदपि ध्यर्थम् । चरं च व्यर्थम् । तथा चाहूंगीणस्योक्ष्यधीनत्वेनोदयकालीनत्वात्तज्जनितंमध्यमग्रहस्थ तत्कालीनत्वेन तज्जस्य स्पष्टस्यापि तत्कालीनत्वासबेलद्वयकालीनल्वसिद्ध्यर्थं देशान्तरोद्यान्तरभुज