पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

e> गोलोध्याये म०डी०-विंशैत्यंशम् । ततोऽपचयेन दृष्टस्तत्र यथोपचयस्तथैवापचय इति सूर्यस्थं काल वशेनाप्यविकृतत्वदर्शनाद्वरमतिभिः सूर्याधिष्ठितं वृत्तं कल्पितम् । एतदनुरोधेन भगोले वृत्तं तस्यान्तिवृतम् । एतद्वृत्ते भगोले प्राधान्येन राशय ग्रहज्ञानोपयुक्तः कल्पिताः। एतदन्तरस्यानुगतैकप्रकारेण ज्ञानात् । यतः क्रमणं क्रान्तिः । सूर्यस्यैतद्वृत्ते स्वशक्त्या गमनात् । अन्यमहागोंलेऽपि तदनुरोधेन क्रान्तिवृत्तं कल्पितम् । चन्द्रादीनां सूर्य घदर्शनाभावेऽप्यनुगतान्तरं विनाऽपि कदाचित्सूर्यवृत्ताधिष्ठानं भवत्येव । सूर्यस्यैत इवृत्तस्थानुगतान्तरं विना चन्द्रादिवृत्तस्थत्वं न भवति । पौष्णान्ते भगणः स्मृत इत्युक्तत्वाच्च । रेवतीतारायाश्चन्द्रादिवृत्तसंबन्धाभावात्सूर्यवृत्तसंबन्धाच्च फलादेशोऽनुगतत्वेन सर्वग्रहणां क्रान्तिवृत्तानुरोधेनैवाऽऽहृत इति ॥ १२ ॥ अथ क्रमप्राप्तं बिमण्डलनिबन्धनं स्रग्विणीभ्यामाह---नाडिकामण्डल इति । यथा नाडिकवृत्ते क्रान्तिवृत्तं निवेशितमुत्तरगोले उत्तरतो दक्षिणगोले दक्षि णतो नाडिकामण्डलादित्यर्थः । तथा च तद्वत्क्षेपवृत्तं चिक्षेपवृत्तं क्रान्तिवृत्तं न्यसेत् । क्रमितवृत्तप्रदेशाभ्यां विक्षेपकृतान्तराचरदक्षिणगोलप्रदेशौ वृत्तार्धरूपावुत्तरतो दक्षि णतश्च क्रमेण यथा भवतस्तथा शत्रुचं निवेशनीयम् । ननूक्तप्रकारेण शरोऽपि ग्रहाणां क्रान्तिबदेव सिद्धः । नाडिकवृत्ताच्चतुर्विंशत्यंशैः कुन्तिवृत्तवरदक्षिणभार गयोरवस्थानात् । चतुर्विंशत्यंशैः क्रान्तिवृत्ताच्छरवृत्सतोत्तरक्षिणभागयोरवस्थानस्योक्त- त्वात् । न चेष्टापत्तिः । प्रहशराणां परमत्वेऽपि चतुर्विंशानुपलम्भादित्यतः साधा रणोक्तं विशदयति--क्षेपवृत्समिति र क्षेपवृत्तं शलाकजं तुकारात्पूर्ववृत्तसमं चक्र भागायाइकितमवि मेधादिराशिप्रथमाक्षराथइकितं यद्वृत्तं तत्क्षेषवृत्तम् । तत्र क्षेपधृते क्षेपपातेषु प्रस्फुटपातस्थानेषु चिह्नान्युक्तवत्क्रान्तिवृत्ते शरघातस्थानचिहनानि तथेत्यर्थः । कृत्वा । यः समुच्चये । तेन क्रान्तिशरवृत्ते पातचिहनाकितेनैकतरम् । क्रान्तिवृ- सस्य विक्षेपवृत्तस्य च । चः समुच्चये । क्षेपपातेऽइकितझारपातस्थाने सघइभे स्वस्व- धइभान्तरितस्थानाभ्यां सह वर्तमाने । युतिं संयोगम् । चः समुच्चये । कृत्वा । क्षेपपातस्थानादभिभागे शशिक्रममार्गेण । त्रिभे त्रिभङ्ग्यन्तरितप्रदेशे पृष्ठतो राश्य इकनविलोममार्गेण । पातस्थानात्पृष्ठभागे त्रिभान्तरिते प्रदेशे. । चः समुच्चये । क्षेपभागैः स्फुटैः परमैर्वक्ष्यमाणैः क्रान्तिवृत्तात्सौम्ययाम्ये । अपृष्ठक्रमेण शवृत्तं निबन्धयेत् । इदमृष्यतीन्द्रियदृग्भिर्तृदादिभिश्चन्द्रादिगतिदर्शनानुरोधेनोपकल्पितशरवृक्षानु कल्परूपम् ॥ १३ ॥ १४ ॥ ननु शरवृत्सक्रान्तिबृरुकेरेकत्वसेयः सर्वग्रश्नपातकनत्योः शरपातयो