पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गलस्वरूपभृतैः। १५ म०डी०-र्धनर्णमित्याद्यनियमें प्रमाणाभावादेकरूपस्यौचित्याच स्पष्टाधिकारस्त्वयुक्त एवेति भावः । नन्विदं दृक्साम्यसंपादनात्फलबलासिद्धे तयोर्वेजात्यमतो न किंचिद्विरुद्धमित्यत आह-किमिति । बुधास्तदभिज्ञ उदयास्तमययोरुदययोर्नित्योदयसूर्याधीनोदययोरित्यर्थः । अस्तयोर्नित्यास्तसूर्याधीनास्तयोश्चेत्यर्थः । दृक्कर्म ईंधा। द्विधाभूतमायनमाझे चेत्यर्थः । ग्रहे विदध्युः संस्कुर्यः । तत्तथा । उदयास्तयेरेवेति किं नियतमित्यर्थः । तथा च विना दृक्कर्मसंस्कारं दृक्साम्यसिद्धिर्न घटते । अन्यथा दृक्कर्मसंज्ञाब्याघतः । अतो गृहस्पष्टत्वसिद्धयर्थे दृक्कर्मापि संस्कार्य मन्शत्रफळचदित्युदयास्तलग्नसाधनार्थ. मेव तद्दनमुपयुक्तमिति भावः । तस्मादुक्तरीत्या त्वदुक्तं पूर्वार्धप्रतिपादितं ग्रहगणि- तमयुक्तमित्युपसंहरति--सर्वमिति । चेद्यदि । अमलं निर्देषणं गोलमलमत्यर्थं विजा नासि तfई मे मम सर्वं पूर्वाधोंक्तगणितजातं विमलं निर्दूषणं वद । पूर्वार्धेन तत्प दार्थानां सामान्यज्ञानातटपदार्थस्वरूपप्रतिपादनानुबत्या सर्वमसंगतं . गणितजातमिति भावः ॥ ४ ॥ अथ त्रिप्रश्ने दिनमानभेदुपज्ञे श्लोकद्वयेनाऽऽह महदहः किमहो रजनी तनुर्दिनमणौ गणकोत्तरगोलगे ननु तनुद्दिवसो महती निश वद विचक्षण दक्षिणदिग्गते ॥५॥ भवति किं युनिशं युनिवासिनां द्युमणिवर्षमितं च सुरद्विषाम् । पितृषु कं शरीमासमेतं तथा युगसहस्रगुणं वहिणस्य किम् ॥३॥ स्पष्टम् ॥५॥ ६ ॥ - अथ चरघटीसहिता रहिता इत्यादिना स्पष्टाधिकारोक्तदिनराश्योरुत्तरगतो मह वपत्यं दक्षिणगोलेऽल्पमहत्वं सिद्धं द्रुतविलम्बितेन खण्डयति--भहविति । हे गणक गणितज्ञ । उत्तरगोलाधिष्ठिते गायनसूर्ये, अहो इत्याश्चर्यं । अर्थ धिंवसो महान्युक्तं भवति । रात्रिस्तसुरक्षा कुतो भवति। भूमेरविकृत[त्वे]नदयास्तस्थल- योरेकवृत्तस्थत्वाच्च । गोलसंधौ दिनराश्योस्तुल्यत्वेनाने उत्तरगोले दिनरात्रयोर्युद्ध क्षयौ कुतः संजातौ । कारणाभावात् । विपरीतमेव किं न जातमित्याश्श्वर्यपदम् । एवं दक्षिणदिगते दक्षिणगोलस्थे सायनसूर्ये हे विचक्षण पदार्थस्वरूपविंचारंक । नन्विति पूर्वपक्षद्योतकं वितर्द्ध वा । दिवसस्तनुरल्पंः किं निश महती कि, अत्र कारणं वंद । तथा च दिनरात्र्योरुत्तरदक्षिणगोलक्रमेण सदृशत्वमयुक्तं । सदैकरूपस्य युक्तत्वात् । अत उक्तं दिनराश्रयोविंसदृशत्वमसंगतं युक्त्यभाषीदिति भाषाः ५ ॥