पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकारः । २३ ३ म०८०-मध्यांश इत्युक्त्याऽयनांशसंस्कारेण स्पष्टत्वं तेषामिति वाच्यम् । ध्रुवकाणामय नांशसंस्कारामुक्तेः। अन्यथा ग्रहादिवन्मन्दफलादिकल्पनापत्तेः । तस्मादश्वादिमध्यांश इत्यस्याश्विन्यादिनक्षत्राणां प्रत्येकमनेकतारासंनिवेशात्मकत्वात्कस्यास्ताराया भुवक इत्यपेक्षायां तन्मध्ये योगताराया अयं ध्रुवक इत्यर्थात् । अत एवाने योगतारो क्तिः । किंच मध्यमधुवकाभ्युपगमेऽपि निरयनमेधादिराशीनां सिद्धिः } अन्य- थाऽयमांशसंरचूता एतेऽङ्का अश्वाविंध्रुवकाः स्युरिति कथनापत्तेः । अत एवागस्त्ये मिथुनान्तगः । विंशे च मिथुनस्यांशे मृगइयाधो व्यवस्थितः। बहुभुज़्ब्रह्महृदयौ वृषे द्वाविं शभागगौ । वृषे सप्तदशे भागे यस्य याम्योंऽशकद्वयात् । विक्षेपोऽभ्यधिक भिन्द्यद्रोहिण्याः शकटं तु सः । इति ब्रह्मसोमसूर्याद्युक्तावयनांशसंस्कृतसिद्धक्ताङ्कग्रहणे प्रत्यक्षवाघादयनां शसंस्कारानुक्तेश्वौक्ताङ्कतुल्यतदसंस्कृतग्रहे रोहिणीशकटभेदादिदर्शन संगच्छते। नचैते ध्रुवका अयनांशभावकाल इति तथोक्तं सम्यगिति वाच्यम्। आर्यसिद्धान्ते तथोक्त्यभावात्तथा कल्पनेमानाभावात् । अन्यथा सर्ववचनानां काल्पनिकत्वकल्पनेनान्यया महापूर्वपक्षवच नाविषयत्वापत्तेः । पौरुषमतानुप्रवेशात्र । किंच अयनांशदानपरिगणनयैव तवति रिक्तस्थलेऽयनांशसंस्कारसिद्धिः। अन्यथा परिगणनवैय्यर्थापत्तेः । एतेन प्रहे बीजरीत्याऽ यनांशदानं समर्थितं निरस्तम् । बीजरीत्यनुक्तेः । धुवकेऽयनांशसंस्कारानुक्तेश्च । किंच नक्षत्रगमनेन.नक्षत्रध्रुवकणां तत्संस्कारोपपत्ती ग्रहाणां कथं तत्संस्कार उपपन्नः स्यात् । नहि नक्षत्रगमनानुरोधेन ग्रहा अपि तथा गच्छन्ति । येन तत्संस्कारः । मानाभावात् । न च तत्संस्कारान्यथानुपपत्य तेषां तथ कल्पगतिकरूपनं युक्तमिति वाच्यम् । ऋणायनश काले प्रहाणां स्वशस्या पूर्वपश्चिमगत्योर्विरुद्धयोरनुरपतिप्रसङ्गभत् । नन्वेवं भवदुक्तं मीकिं कथमुपपन्नम् । तत्रापि परमोपचयानन्तरं बीजफलस्यापचये ग्रहाणां स्वश इस्या पश्चिमेगमनस्य पर्यवसानात् । नहि गमनं विना बीजफलमुत्पद्यते । न च तसकाले मुंहस्य न्यूनाधिका पूर्वगतिर्भवतीति वाच्यम् । मध्यममानेन गातिवैलक्षण्य संभवात् । न च स्फुटगताविति वाच्यम् । बीजोत्पन्नगतिफलस्य च्छेद्यतेऽनुत्पत्तेरिति चेक्ष । बीजस्याऽऽषेनुक्त्या युक्त्यभावेन चानङ्गीकारात् । तदङ्गीकारे पौरुषमतानुप्रवेशाच्च । न च धनयमांश एव यथFरमित्यधिकगतिकल्पनेनायनांशयोजनमिति वाच्यम् । आधुविरोधात् । पौरुधमतानुप्रवेशाच्च । अयनांशभगणयुक्तग्रहभगणानां प्रहभगणत्वेन लाधवोक्तौ नक्षत्रभगणोक्तौ चाथमांशपदर्थापलापप्रसङ्गाच्च । तस्मादर्थानांशोपपत्त्यर्थं न्तिवृत्तचलभं प्रागुक्तं युक्ततरामिति । एतेनाष्टदशशतशेषेऽब्देभा२७विभिन्ने विभा- {जते विधेम । भूक्तं युग्ने गये वस्रगजचन्द्रे१८९३घलांशुककाः स्वर्ण ।