पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूव नभसप्रश्नः । २३ अ०डी० -अथपृथ्वीसंस्थानप्रश्नोत्तरभूतभुवनकोशाध्यायो व्याख्यायते । तत्र सपूर्वी भच क्रभित्याद्युक्तावगतस्याभिमतभचक्रस्थितेः संस्थानार्थं भूमिप्रश्नोत्तरं भूमिस्थित्यादिस्वरूपभूतं विवक्षुः प्रथममुपस्थितसृष्टिसंभवः कथमित्याशङ्कापाकरणाय मूलभूतसृष्टिप्रक्रियां युक्ति युक्तप्रश्नोत्तरसयःरणकमनचरितमङ्गलनिवन्धनच्छलेन मन्दाक्रान्तयाऽऽइ-यस्मादिति । तत् ‘ यतो वाचो निवर्तन्ते । अप्राप्य मनसा सहेति श्रुतेरनिर्वचनीयं बुद्धिस्थं वस्तु जयति सर्वोत्कर्षेणास्तीत्यनेन नमस्कार आक्षिप्यते । नन्वनिर्वचनीयत्वादेव मिथ्यात्वेन सर्वोत्कृष्टत्वं कथमत आह--तस्वमिति । तत्स्वमसीति श्रुत्या वस्तुभूतम् । तेन वेदान्तमतप्रपञ्चमिथ्यात्वं नेति सर्वोकृष्टत्वं स्वतः सिद्धमिति भावः । अत्र हेतु- भूतं विशेषणं विशेषतस्तदवगमार्थमाह-ब्रह्मति । बृहत्वादपरिच्छिन्नत्वाद्वयापकमित्यर्थः।। ॐ तद्ब्रह्मेति श्रुतेः । प्रपञ्चस्य तथात्वाभावादिति भावः । तसन्द्राचे प्रमाणमाह- आश्रमिति । जगत्प्रागभावकालावस्थायित्वेन तन्निमित्तकरणभूतामिति कार्यलिङ्गकानु मानेन तत्सिद्धिर्यतो वा इमानि भूतानि जायन्ते । तसृष्ट्वा तदेवानुप्राविशदिति श्रुते- श्रेति भावः । ननु वेदान्तमते एतदुक्त्या मायासिद्धेन तत्सिद्धिरत आह--शव- दिति । नियमविनाशीत्यर्थः । मायाया विनाशित्वात्तदसिद्धेरीवरसिद्धिरिति भावः । नन्वेवं सांख्यमते नित्यायाः प्रकृतेः सिद्ध्या न तत्सिद्धिरत आह---परममिति । उत्कृष्टम् , । तवं तु नित्कर्विज्ञानमानन्दं बलेति श्रुतेः । सर्वज्ञत्वेन सच्चिदानन्दरूपे परमेश्वरे न प्रकृतवचेतनस्वादिति भावः । ननु कपिलमुनिमतेऽचेतनाऽपि प्रकृतेः प्रगढमात्मोपकण्ठे सफलं तनोति । अचेतन संचलतीव लोहं स्वयं यथा भ्रामकसंनिधाने । वसविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तरज्ञस्य पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधान मस्येत्युक्त्या जमदुपादानकारणभूताया प्रकृतेरचेतनाया जीयसांनिध्यादेव जगत्कर्तृ त्वसमर्थनात्परमपदस्याप्युपादानकारणकत्ररभेदोऽर्थ इति शश्वज्जयति परमं ब्रह्म तस्माद्यमित्यनेन प्रकृतिरिद्ध्या नेग्धरासिद्धिरित्यतः पातञ्जलमताभ्युपगमपूर्वकसृष्टिप्रसिद्ध याथनच्छलेन तत्सिद्धिमाह--यस्मादिति । यस्माद्धेतोरित्यर्थः । क्षुब्धप्रकृतिपुरुषा भ्याम् । अविलम्बेन. कायपत्तिकत्वं क्षुब्धत्वम् । । क्षुब्धौ यौ प्रकृतिपुरुषं न प्रहृ- तिर्गुणसाम्यमव्यक्तं प्रधानं सांख्यशास्त्रे जगत्कारणतया प्रसिद्धम् । तत्क्षोभस्तु गुण धियरूपः । पुरुष ईश्वर: । स वा एष पुरुष इति श्रुतेः । ततसँभश्च सिसृक्षा । ताभ्यां प्रकृतीविराभ्यां क्षुब्धाभ्यां सकाशादित्यर्थः । असृष्टिकाले सृष्टिवरणाय क्षुब्धेति विशेषणम् । महान् । महान्वै बुद्धिलक्षण इति बुद्धितस्वापरपर्यायं महत्सव मभूत् । ईश्वरसिसृक्षया प्रकृतेः श्रद्धया महत्तत्वं त्यक्तमभवत् । तन्मतें सकन