पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ गोलाध्याये १०८०--प्रथमः । ज्यायाः सूक्ष्मप्रकाशवगमेन तवाश्वितुल्यत्वानुत्पंच्या स्थूल इति मत्वा लब्धा(व)र्यभट्टेन ततोऽप्यतिसूक्ष्मांशशनी पतनो भागपरिधेयसमस्थ इत्युक्त्वा दशाधि कशतंभागः सम इत्युक्तम् । तत्राऽऽचार्येरापंपौरुषसंमतांशयोर्योगार्धासनः शतभागो लाघवा दङ्गीक्रुत इति । तथा च गोलाकारत्वेऽप्यंशे समत्वभानान्मण्डलाकारदर्शने न क्षतिरिति भावः । नन्वेवं कन्दुकस्यापि समतया दर्शनापतिरित्यत आह-पृथ्वीति । भूमिः । नितरामतिशयेन पृथ्वी । किंचिदूनपञ्चहस्रप्रमाणतया महतीत्यर्थः । चः समु- क्षये । तेन कन्दुकस्यांशे समवेष्टयरूपतया न तस्य तदाकारेण प्रतिभामुप । भूमिगोलकस्य तु किंचिदूनपश्वशथोजमभागे समत्वसद्भावात्तदाकारेण प्रतिभानमिति भावः।। नन्वेवं बृहत्कन्दुकाकारमृत्पिण्डगोलेंऽशस्य समतयोपलम्भात्समत्वेन दर्शनेऽपि तदधिक- दर्नन गोलाकारदर्शनप्रतीतेरभावितवाद्गमिंगोलेऽपि पञ्चाशद्योजनप्रदेशे समतया { दर्शनप्रर्त[ ता ]वपि तदधिकशदर्शने गोलांशत्वेनापि प्रतीतिर्भवत्वित्यत आह-- तनीयानिति । नरो मनुष्यरतनीयानतिशयेन लघुभूत इत्यर्थः । तथा च मनुध्या णामरूपप्रमाणत्वेन तदृष्टिगोचरभूम्यंशस्य समभागावगतभूमिप्रदेशत्वाभावेन संपूर्ण- समभागदर्शनमेव नास्ति कथं तदधिकदर्शनम् । येन गोलाकारप्रतीतिरत एव । तत्पृष्ठगतस्येत्यनेनोच्चस्थानां भूपृष्ठस्थदर्शनभागाधिकभागदशनाद्वीिहगाधिपस्य ब्रह्मण वा गोलाकारप्रतीतिरस्तीति सूचितम् । तथा च सूर्यसिद्धान्ते--अल्पकायतया लोकाः स्वस्थानात्सर्वतोमुखम् । पश्यन्ति वृत्तामप्येनां चक्राकाशं वसुंधरामिति । एवं च मण्डलाकरदर्शनेन गोलाकारत्वं विरुदं नेति भावः + १३ ॥ अथ कियन्मानेतिप्रश्नोत्तरं प्रोक्तो योजन संख्यथा कुपरिधिरित्यनेन मध्यमधिकार एवोक्तं तत्पुराणविरुद्धमपि समञ्जसमुपपत्तािसिद्धत्वादित्युपजातिक याऽऽह-पुरान्तरमिति । तदक्षदिलषलवैः । कयोश्श्विद्दक्षिणोत्तरसूत्रस्थयोर्नगरयोर्वक्ष्यमाणरीत्या शतधवो अतिरूपाक्षांशमानयोर्विश्लेषेऽन्तरे ये लवास्तैरश्नांशान्तरांचेः प्रमाणभूतैरिदं चतुः- शामकयोजनमानमतम् । तत्र नगरान्तरमुत्तरम् । दक्षिणोत्तरान्तररूपं योजनसं- ख्यामानम् । उत्तरमिति तु न्यूनाक्षदेशादधिकाक्षदेश उत्तर एवेति नियमयत . कुम् । तेनैवाक्षांशसंबन्धिनगरयस्तिर्यक्कर्णरूपमन्तरं न ग्राह्यमिति ध्येयम् । चेयदि स्यात् । फलत्वेनोपलभ्यते । तदा तर्हि । चक्रशकैर्वोदशराश्यंज़ेरिच्छास्पैः किम् । कियन्मानं लभ्यत इति । । अनुपातयुवत्या । एवमुक्तस्वरूपेण