पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ गोलाध्याये द्रुहिणजन्मकुपङ्कजकर्णिकेति च पुराणविदोऽमुमवर्णयन् ॥३१॥ विष्कम्भशैलाः खलु मन्दरोऽस्य सुगन्धशैलो विपुलः सुपार्श्वः तेषु क्रमांसन्ति च केतुवृक्षाः कदम्बजम्बूवटपिप्पलाख्याः३२॥ जम्बूफलामलग लद्रसतः प्रवृत्ता जम्बूनदी रसयुता मृदभूत् सुवर्णम् । जाम्बूनदं हि ततः सुरासिद्धसंघाः शश्वस्पिषन्यमृतपानपराङ्खस्तम् । वनं तथा चैत्ररथं विचित्रं तेष्वप्सरोनन्दननन्दनं च । धृत्याद्यं यद्धृतिऋत्सुराणां भ्राजिष्णु वैभ्राजमिति प्रसिद्धम् । सरांस्युरेतेष्वरुणं च मानसं महाह्रदं श्वेतजलं यथाक्रमम् । संरःसु रामारमणश्रमालसः सुरा रमन्ते जलकेलिलालसाः३५॥ सदनकाञ्चनमयं शिखरत्रयं च मेरौ मुरारिकपुरारिपुराणि तेषु । तेषामधः शतमखज्वलनान्तकानां रक्षोम्घुषानिलशशीशपुराणि चाष्टौ ॥ ३६ ॥ तस्येव वृतस्य मध्ये कनकरनमयो मेरुगिरिः कर्णिकाकारस्तदेव देवनामा- टपम् । तत्र श्रावुपरि शिखरत्रयम् । तेषु शिखरेषु मुरारेर्बलणः पुरारेश्च पुराणि सन्ति । शिखराणमधः समन्तादिन्द्रादिलोकपालानां पुराणि सन्ति । अथ भेरोर्विष्कम्भशैला इत्याशरपर्वताः। यस्यां दिशि यमकोटिस्तद्दिक्प्रभृतिमन्द्रसु- गन्धविषुळसुषाश्च दिक्षु सन्ति । मन्दरे कदम्बः केतुवृक्षचैत्ररथं वनमरुणोदं सरः । सुगन्धशैलमस्तके केतुवृक्षो जम्पूः। येनेदं जम्बूद्वीपमुच्यते । नन्दनं वनं मानसं सरः। विपुटशैटमस्तके केतुवृक्षो वटो धृतिर्वनं महाहदं सरः। सुपार्श्व मस्तके केतुवृक्षः पिप्पला वैभ्राजं वनं वेतोदं सरः । शेषं सुगमम् ॥३१३२ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ॥ म०-६०-ननु देवानां स्वर्वासित्वेन भूमौ तदवस्थानाश्रवणात्कथमत्र तेषां गृहाणि संभ वन्तीत्यतो द्रुतविलम्बितवृत्तेनाऽऽह--इहेति । इह ।' इलावृतवर्षे । किल निश्चयेन । हि यस्मात् । मेरुपर्वतो मध्यके- न्द्रस्थितोऽस्त्यतो भूमौ देवानामवस्थानं न विरुद्धमिति भावः । ननु तस्येलावृता वस्थाने किं मानमत आह--कनकरत्नमय इति । तथा चेलावृतमेवैः कनकर नमयत्वेनातिचतुरस्रप्रचितसंयोगानुमानं प्रमाणम् । योग्यं योग्यायेत्युक्तेति भावः । ननु तथाऽपि मेर्ववस्थानात्कथं देवानामवस्थानं सिद्धमत आह—त्रिदशालय इति । तृतीया दशा युवत्वं येषां सदाऽस्तीति न्निदशाः । त्रिदशा विबुधाः सुरा इत्यभिधानाच