पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रभैः। ६७ ४४०-सीताख्या । मेरोः पूर्वभागस्थमिलावृतप्रदेशे पवित्रीकृत्य भद्राश्ववर्षे प्रति याता , । तमार्गेण पर्वतादिभेदनं संपाथः ळवणसमुदं गतेत्यर्थः । मेरोर्दक्षिणभागातप्रवाहाम- झगङ्गा मानससरोघरसंगततयाऽलकनन्दा । भारतं वर्षमस्मदधिष्ठितभारतवर्षमार्गेण समुद्रे मिलिता । चकाराद्दक्षिणभागस्थेलावृतप्रदेशहरिवर्षकिंनरवर्षाणि संप्लाव्येत्यर्थः । पश्चिमभागतप्रवाहमकगङ्गा महाहदसंलग्न –चक्षुराख्या केतुमालम् । चकारात्पलि- भभागस्थूलावृतप्रदेशमित्यर्थः । तन्मार्गेण समुदं गता । उत्तरप्रवाहाश्मकगट्रैकदेश- रूपा श्वेतजलसंयुता भद्राख्या। मेरोः सकाशादुत्तरंस्थितान्न कुरून् देशान् । चका रात्समुदं गतेत्यर्थः । कुरूनिति बहुवचनेन मैत्तरभागस्थेलाडुतरम्यहिरण्मयकुरुवर्षः अदेशमार्गेणेत्यर्थः ॥ ३८ ॥ अथ सेत्यनेन सूचितं महिमामं गत्याऽऽह--येति । या गङ्गा विष्णुपादारविन्दमकरन्दरूपा । आकाणिंत श्रुता । अभिलाषिता । इच्छाविषयीकृता । याकारण प्रत्येकं समन्वयः । दृष्टा स्वदृग्भ्यां सादरमवलो- किता । स्पृष्ट। शरीरेकदेशेन संस्पर्शविषयीकृता । अवगाहिता निखिलशरीरावयवैर्गद्भव जलस्याऽऽलोडनं तद्विषयीकृत । पीता जळपानेन रसनाविषयीकृता । उर गर्तेति ताल्वोष्ठपुटाभ्यामुवारिता । स्मृता ध्यानविषयीकृता । स्तुता नानावि- धतत्स्वरूपवर्णनविषयीकृत । बहुधा । अनेकशः । पापिनो महापातकोपपातका याश्रितान् पुरुषान् . मनुष्यान् । अपिशब्दात्प्रायश्चित्तानधिकारिपापिमनुष्यानि- त्यर्थः । पुनाति बहुप्रकारेण पापनिरासदाराऽतिशुद्धान् करोति । पवित्रतासंपा- दनोत्तरं परमेश्वरसायुज्यं स्वतः सिद्धम् । सुकृतिनां तु किमाश्चर्यम् । अत्राऽऽक- नायुक्तक्रमेणोत्ररत्र पूर्वोक्तस्योपजीव्यत्वम् । यथा श्रवणानन्तरं तदभिलाषस्तदः नन्तरं दर्शनेच्छेत्यादीति सूचितम् । अथ श्लेषेण हृङ्गारार्थः । या कान्ता मुख चन्द्राधकृतपूर्णशरद्चन्द्रोक्तमविषयीकृता । बहुधFऽत्यन्तम् । पापिनः कामाभिल- मनमुरागिणः पुरुषान् । पुनाति तद्विरहानलजनितदुःखापनोदनद्रा सुसय- तीत्यर्थः ३९ ॥ अथायुत्कटमहिमान्तरं दोधकत्वेनाऽऽह--यामिति । नरे मनुष्ये । याम् । गङ्गां प्रति चलिते यामीत्युपक्रमं कुर्वति सति । तत्पितृसंधः । तस्योपक्रमयुक्तमनुष्यस्य । पितरः स्वपितृपितामहप्रपितामहादयों माता मझदयः शृशुरादय इत्येषां संग्रहार्थं संघोपादानम् । दलित खेळवन्धो दलिताः कृण्डिता अखिलबन्धा यस्यासौ ! तत्पितृणां यमदूतनिबद्धपाशात्रुट्यन्ति । अनेनोपक्रमभजे