पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ गलाध्यायं-- म०८०-कृते पुनस्तन्निबन्धनं भवतीति पापं सूचितम् । गच्छति मार्गसंलले सति । वल्गति तत्पितृसंघोऽस्मकुलजे गङ्गं गच्छतीत्यस्माकमितो दुष्कृतकर्मविच्छेदात्सुर । लोकवसोऽवलम्बन भवतीति मत्वाऽऽनन्दति । एतेन मार्गात्परावर्तने पुनरतेषां तद्दुःखं भवतीत्यधिकं पापं सूचितम् । प्राप्ततटे । प्रातं गङ्गातीरं येनैतादृशे कुलजे विजितः पराभविता गङ्गबलेन मुष्टिघातादिभिरन्तकदूता यमकिंकरा येनैतादृशः पितृगणः सन्निरयान्नरक लोकासुरस्कं प्रति गच्छति । मज्जनादौ यत्फलं तद् निर्वचनीयमित्यपि सूचितम् ॥ ४० ॥ इदानीं भारतस्यापि मध्ये नव खण्डानि सप्त कुलाचलांश्चाऽऽह ऐन्द्रं कशेरुशकलं किल ताम्रपर्ण : मन्यद्भास्तमदतश्च कुंकुमारिकाख्यम् । नागं च सम्यामंदी वारुणमन्यखण्डं गान्धर्वसंज्ञमिति भारतवर्षमध्ये ॥ ४१ ॥ वर्णव्यवस्थितिरिहैव कुमारिकाख्ये शेषेषु चान्यजजन निवसन्ति सर्वे । माहेन्द्रशुक्लेमलयज्ञकपारयात्रः सहायः सबन्ध्य इह सप्त कुलाचलाख्याः ॥४२॥ स्पष्टम ॥ ४१ ॥ ४२ ॥ भ०डी०-अथ भारतवर्षस्य नव खण्डानि वसन्ततिलकयाऽऽह-ऐन्द्रमिति । इह । अस्मदधिष्ठिते भारतवर्षमध्ये । लवणसमुद्रोत्तरतटहिमाद्भोरन्तरालप्रदेशे । किळ । निश्चयेन । इत्युक्तक्रमेण यमकोट्याभिमुखहिम-युग्रात्पूर्वप्रदेशाद्ररोमका भिमुखहिमाष्यग्रपश्चिमभागपर्यन्तं दक्षिणोत्तराणि तिर्यगूपाणि खण्डानि । तत्र प्रथ ममैन्द्रं खण्डम् । द्वितीयं कशेरुखण्डम् । अन्यतृतीयं ताम्रपर्ण खण्डम् । अतोऽनन्तरम् । चतुर्थं गभस्तिमत्खण्डम् । चकारादेतदनन्तरं कुमारिकाखण्डं पञ्चमम् ।. चकारादर मात्परं षष्ठं नगखण्डम् । अनन्तरं सौम्यं खण्डं सप्तमम् । अनन्तरमष्टमं वरुणं । अन्त्यरू एउंडे नवमरूण्डं गन्धर्वाख्यम् । खण्डम् अनेन दशमं नास्तीति सूचितम् । तथा च व्याससिद्धान्ते--भारतस्यास्य वर्षस्य नव भेदान्निशमय । इन्द्रद्वीपः कशेरुञ्च ताम्रपणं गभस्तिमान् । नागद्वीपस्तथा सौम्यो गन्धर्वस्वथ । अयं तु नवमस्तेषां द्वीपः सागरसंवृत इति । वारुणः