पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्नः । म० टी०-तद्देशो निरक्षपद्वास्थ्य इति लक्षणद्वयेन निरक्षदेशत्वे(त्रं) लङ्कां पूर्वापरसूत्रस्थदंशेषु प्रसिद्धमिति भावः ॥ ४८ ॥ अथ निरक्षदंशातिरिक्तटेशेषु साक्षत्वं वंशस्थेन प्रतिपादयति-उगिति । नरो निरक्षदेशाद्यथा यथा यथमत्यर्थः । उंचरादिशं गच्छति तथा तथ । उत्तरोत्तरम् । खत् । स्वाधिष्ठितभूप्रदेशसमसूत्रेणोर्चस्थभगोलप्रदेशरूपाका शस्थानादित्यर्थः । अक्षमण्डलं भगोल्डंबद्वयसमान्तारितमध्यवृत्तं नतं नग्न दक्षि- णदिशि पश्यति । स्वमस्तकोर्वभागमध्यत्वेन भाधिष्ठितगोलभ्रमणं पश्यतीत्यर्थः । नन्वेवं तद्देशस्यं निरक्षदेशाभिन्नत्वेऽपि साक्षत्वं कथमित्यत आह--उदग्धुवामिति । क्षितेः खदेशावच्छिन्नभूगर्भक्षितिजवृत्रासुरादिस्थानादित्यर्थः । उत्तरध्रुवम् । । उन्नत मुच्चस्थानस्थितं पश्यति । यथा निरक्षदेशाद्दक्षिणां दिशं गच्छति तथा दक्षिणध्रुवं क्षितिजावुन्नतं पश्यति । उत्तरतो भचक्रे नतं पश्यतीति चार्थः । तथा च भुवस्य क्षितिजबूलमताया अभावान्निरक्षदेशभिन्नत्वेन साक्षत्वम् । ननु ध्रुवस्याक्षस्थानापन्नत्वेन प्रत्युत निरक्षदेशस्य साक्षत्वं । तदितरदेशस्यान्यतरध्रुवादर्शनासादितरध्रुवदर्शनेऽपि निरक्षत्वौचित्यात् । ध्रुवौन्नत्या साक्षत्वप्रतिपादनमसंगतमत आह--तदन्तरे इति । तयोर्भगोलयम्योसरवृत्तस्थयोर्घवद्यसमान्तरितभगोळमध्यवृत्प्रदेशंस्वमूर्वा- पलक्षिताकाशप्रदेशयोर्मुवक्षितिजवृत्तप्रदेशयोर्वा । अन्तरे मध्ये । याम्यचरवृत्ते । पलांशका सन्ति । तथा च पलांशानामक्षांशसंज्ञत्वात्तेषां चे तेंडुनं तिरूपत्वात्साक्षत्वं युक्तमुपपादितमिति भावः । ननु तदुन्नतिदर्शने - तदंशज्ञान- मिति दूरस्थितभगले कथमतस्तद्विशेषणेनोचरमाह--योजनजी इति । निरक्षदेशा स्वदेश याम्योत्सरान्तरेण यैर्योजनैर्भवति तेभ्यो योजनैभ्य उत्पन्न अक्षांशे इत्यर्थः । तथा वदग्दिशामित्यनेन यथा - निरक्षदेशात्स्वदेशस्यान्तरं ’ तथा ध्रुवोन्नतिदर्श नमिति प्रलिपादनान्निरक्षस्वदेशान्तरयोजनोदपक्ष एव अक्षांशा इति योजनज्ञाने तज्ज्ञानमशक्यं नेति भावः ॥ ४९ ॥ ननु योजनज्ञाने तदशज्ञानं कथमित्यतो योजनांशौ परस्परसंबन्धेन गीत्याऽs योजनेति । स्वदेशस्वनिरक्षदेशयोरन्तरस्थितयोजनसंख्या घट्यधिकशतत्रयेण गुणिता स्वपदेन भूमियोजनानां भूमावेव ज्ञानात् तस्याः प्रागुक्तः परिधिस्तेन भक्ता भूमौ यज नसंबन्धिभूपरिधिप्रदेशैकदेशेऽश योजनसंबन्धेन भवन्ति । ननु भूमौ योजनानां ज्ञानदुत्पन्नांश भूमावेवेति कथं तेषामक्षांशत्वं तस्योक्तदिशाऽऽकाशस्थत्वनियमॉदित्यत आह---कक्षायामिति । भूमिसंबन्धांशः कक्षाय भाधिष्ठितगोळे .भूम्यबंधिप्रदे शद्वयसंबन्धिस्वगलनंसतसूत्राभ्यां यद्रगोले ज्ञातं स्थानद्वयं तदन्तराळे याम्योत्त