पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गलाध्ययं म० टी०- नित्यानन्दज्ञानरूपं महऽहं विश्वज्ञानध्वान्तविध्वंसदक्षम् । श्रीकृष्णाख्यं सर्वदाऽभीष्टसिद्ध्यै ध्यायाधीशं सर्वगं सर्वहेतुम् ॥ १ ॥ अथोत्तरार्धे गुरुरामकृष्णपितृव्यपादाब्जयुगप्रसादात् । व्याख्यायते सङ्गणकाभितुष्टयै प्रज्ञानुसारेण मुनीश्वरेण ॥ २ ॥ अथ पन्थादौ ग्रन्थमध्ये मङ्गलमाचरेदिति शिष्टाचारानुमितविधिना यथा पूर्वार्ध निर्विघ्नं समाप्तं तथेदमुत्तरार्धमारम्भणीयं समाप्यतामिति कामना च कृतं नमस्काररूपं मङ्गलं शिष्य शिक्षायै निबन्धुश्चकीर्घितं शार्दूलविक्रीडितवृत्तेन शिष्यावधानार्थं प्रतिजानीते--सिद्धि मिति । तं तां सर्वनाम्नां बुद्धिस्थवाचकत्वाद्बुद्धिस्थं देवं देवीं च । चः समुच्चये । तेन द्वावित्यर्थः । अलम् । अत्यर्थं यावद्विन्नाभावमित्यर्थः । तदवगमश्च प्रारिप्सि तसमाप्या । प्रणिपत्य प्रणिपातपूर्वकं नमस्कृत्य । कर्तव्यापेक्षया पूर्वकालत्वा- नमस्कारस्य ववनिर्देशः । भक्तिश्रद्धातिशयलक्षणः प्रहर्षः प्रशब्देन द्योत्यते । । भक्तिश्चाऽऽराध्यत्वेन ज्ञानम् । श्रद्धा तु वेदादिवोधितफलावश्यंभावनिश्चयः । गले भूगोलादिनिरूपकग्रन्थम् । तस्यापि गोलपदवाच्यत्वात् । ब्रुव इति क्रियाचलादह मिति कर्मोक्षपः । तथा चाहं गोळावायं कथयामीत्यर्थः । ननु भागवतादौ गोलनिरूपणदर्शनात्तव प्रयासो व्यर्थ इत्यत आह--अमलमिति । निर्दूषणम् । भागवतादौ तन्निरूपणं प्रत्यक्षविसंवादाद्ग्रहगणितानुपजीव्यत्वेनोपेक्षितमिति भावः । ननु तथाऽपि सूर्यसिद्धान्तदौ प्रत्यक्षसंवादेन तनिरूपणाद्यर्थोऽयं तव प्रग्रास इत्यत आह--बालवबोधमिति । बालानां गणितोपपत्स्यज्ञानमवबोधो भूग्रहभादियथार्थस्थिति तत्त्वज्ञानं यस्मात् । तथा च सूर्यसिद्धान्तादौ तनिरूपणं संक्षिप्तमस्तीति तत्र कठिनतयाऽनभिज्ञानां बोधो न जायतेऽतस्तेषां बोधार्थं तदुक्तमेव विशदीकृत्य मया सुगमं तन्निरूपणं क्रियत इति भावः । बुद्धिस्थं विवृणोति-सिद्धमिति । यस्थ परमेश्वरस्य । तस्माद्वा एतस्मादात्मन आकाशः संभूत इत्यादिश्रुतिप्रतिपाद्यस्येत्यर्थः । स्मरणतः । उक्तध्यानसक्तान्तःकरणात् । क्षिप्रमविलम्बं साक्ष्यं पुरुषवतिविषय- मभीष्टं कार्यम् । सिद्धिं निष्पक्षतामुपैति प्राप्नोति । जगत्कर्तृत्वादिदं फलमुपल- क्षणम् । तेनान्यदपि महफलं पुरुषहृत्यसाध्यं भवतीति ध्येयम् । आरम्भे मङ्ग- लार्थः सिद्धिशब्दः । बुद्धिस्थां विवृणोति--प्रसादादिति । यस्या देव्याः । अजा- मेकां लोहितशुक्लकृष्णामित्यादिश्रुतिप्रतिपाद्याया मायाया इत्यर्थः । तथा तादृश- निर्वचनीयात्प्रसवदनुग्रहात् । भारती वाग्देवी । नृत्यन्ती नर्तनकारिणी । स्याद्भवति । । नर्तनस्य “स्थानापेक्षवादाह--मुखरङ्गेति । कृतिनां पण्डितानां मुखमैव रङ्गे नृत्यस्थानं तत्र गता विद्यमाना । कथं नृत्यन्तीति दृष्टान्तमाह--भारतबत । भारतस्य नर्तकस्येयं भारती । नर्तकी हुं । यथा भाग्यवतां पुरुषाणां गृह्ङ्ग