पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ शौलाध्यायै - १९८१- प्राणिनशो लयस्तत्र सांप्रतं दिने दिने प्रत्यहं भूतैः प्राणिभिर्यम्भ्रियते वेह स्वाम्यं त्यज्यते तं प्रलयमत्रान्तरभेदेन । हि निश्चये । दैनंदिनं वदन्ति । पूर्वाचार्या इति शेषः । बहमदिनान्तकाले यो भूतविनाशस्तव्यं ब्राहं ब्रह्मसंबन्धिनमवान्तरभेदेन वदन्ति । ननु ब्रदिनान्ते ब्रह्मणो नाशभावाद् बलिलयत्वं कथमत आहे -- भूतानीति । यद्यस्मात्कारणाद् भूतानि प्राणिनः । ब्रह्मतनं शरीरं व्रजन्ति प्रविशन्ति । तथा च ब्रह्मणो नाशाभावेऽपि अलशरीरे भूतानां लयः इति ब्राल- लयः । तद्दिनान्ते । तत्कालमारभ्यः तद्रव्यन्तं यावद्योजनमात्रवृद्धेः क्रमेण नाश इति न क्षतिः ॥ ६३ ॥ अथ तृतीयं लयमेवं विशेषान्तरं चोपजातिकयाSs8-ब्राह्ममिति । ब्रह्मणः शतवर्षावसाने ब्रह्मणो नाशे सर्वाणि भूतानि ययस्मात्कारणात् प्रकृतिं प्रयान्ति गच्छन्ति । प्रकृतौ लीनानि भवन्तीत्यर्थः । सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकीम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहमिति भग- बीतोक्तेः । अतः कारणास्तादृशं प्रलयमवान्तरभेदेन प्राकृतिकं प्रकृतिसंबन्धिनं कुंतीन्द्रास्ततवाभिशश्रेष्ठा - वदन्तीति पूर्वश्लोकोक्तमन्वेषणीयम् । तत्र संहारक्रमस्तु अत्र सर्वभूतैः सह ब्रह्माण्डे ब्रह्माण्डं तत्पाञ्चभौतिके । तत्र भूजले जलं तेजसि । तेजो वायैौ वायुराकाश आकाशोऽहंकारेऽहंकारो महत्तत्वे महंत स्वं प्रकृताविति । ननु प्रळयानन्तरं जीवानां नैयत्यात्पुनः सृष्टिसंभवः कथमित्यत आह-नानीति । अतः प्रलयानन्तरम् । ईश्वरसिसृक्षया प्रकृतेर्विकारे क्षोभ उत्पन्ने सति । लीनानि भूतान्येव कर्मपुटान्तरत्वात् । तेषां भूतानां लयेऽपि पूर्वार्जितसदसत्कर्मसमूहस्य संपुटरूपस्य प्रत्येकं समूहत्वात् । तत्तत्कर्मभोगार्थं पृथक्प्रतः क्रियन्ते सृज्यन्ते । एवं ब्राह्मलयेऽक्षीणपुण्यपापा एव लोका ब्रह्मशरीरं प्रविशन्ति । तत्र . बालण मुस्, बाहुद्वयं क्षत्रिया , ऊरुद्वयं वैश्याः, पदद्वयं शूद्र इत्यादिवेदोक्तक्रमेण । तत अंतराळयन्ते पुनर्बलणः सृष्टिं चिन्तयतो मुखादिस्थानेभ्यः कर्मपुटान्तरत्वाद्ब्रह्मणादयः स्वत एव निःसरन्ति । एवं दैनंदिनप्रळयेऽपि जन्तवः स्वकर्मवशेन यस्मिन्लो केऽधितिष्ठन्ति तत्कर्मनाशात्ते पुनः पृथिव्यां कर्मान्तरवशत उत्पद्यन्ते । क्षीणे पुण्ये मर्यलोके विशन्ति’ इत्युक्तेः पुनः सृष्टावक्षतिः। । प्रधानकारिणीभूता यतो वै सृज्यंशक्तय इति विष्णुपुराणोक्तेः सृज्यशक्तयस्तत्कर्माणि तान्येव सृष्टौ मुख्यं कारणमितराणि निमित्तकारणानीति तदर्थः । प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूत ग्राममिमं इत्स्नमवशं प्रकृतेर्वशात् । इति भगवदुक्तेश्च प्रकृतेर्वशात्प्राचीनकर्म-