पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । नस्य च वस्तुतो भिन्नत्वेऽप्येकवाचकानुप्रयेशेनैकवद्भानम् । तृतीयस्तु- ‘गुणदेाषौ बुधो गृहन्निन्दुक्ष्वेडाविवेश्वरः । शिरसा इलाधते पूर्वं परं कण्ठे नियच्छति ॥ इत्यन्न भिन्नपदोपात्तयोरपि गुणेन्द्वोपक्ष्वेडयोश्च बिम्बप्रतिविम्बभावं प्रकल्प्य साजरत्येनैक्यम् । मिन्नयोरपि धर्मयोः कल्पितसादृश्येनोपादानं बिम्बप्रतिबिम्वभाव इति दिक् । बहूनामुपमानानामेकस्मिन्नुपमेयके । अभिन्ने वाथ भिन्ने वा धर्मे मालोपमा मता ॥ अनयेनेव नृपतिधष्ठ्यूँनेव कुलाङ्गना । कार्पण्येनेव धर्मात्मा कल्पो (१) मर्चेण दुष्यते ॥ पीयूषमिव सुस्वादुभस्वानिव विबोधकृत् ।। ज्ञानव तस्वनिष्णातः सतां वचनविस्तरः ॥ यन्न यात्युपमानत्वमुपमेयं यथोत्तरम् । सा भिन्नेनाप्यभिन्नेन धर्मेण रशनोपमा । साधोधवत् तता विद्या विद्यावदोषहा क्रिया । क्रियावत्प्रीतिकृद्वाणी वाणीवत्कीर्तिहज्ज्वला ॥ यस्यास्ति विमलं शास्त्रं तद्वद्वितं तथा मनः । मनोवइ व्याहृति(२)स्तद्वद्यशो विश्वत्रयीमुदे ॥ ‘एते उपमान्तर्भूता एवं नालङ्कारान्तरमिति मूलकारः। यथा वा- अङ्के विदर्मेन्द्रपुरस्य शङ्के न संममौ नैष तथा समाजः । यथा पयोशिरगस्त्यहस्ते यथा जगद्वा जठरे मुरारेः ॥–॥ ११ ॥ अनन्वयालङ्कारमाह- उपमानोपमेयत्वे यत्रैकस्यैव जागृतः । इन्दुरिन्दुरिवेत्यादौ भवेदयमनन्वयः ॥ १२ ॥ उपमानेति । यत्रैकल्यामुपमित उपमानोपमेययोरभेदस्तत्रानन्वय इत्यर्थः । एकस्यामिति विशेषणादुपमेयोपमाय रशनोपमायां च नातिव्याप्तिः । 'इन्दुरिन्दु- रिवेति 'लक्ष्यम् । यथा वा- आघूर्णतं पक्ष्मलमक्षियुग्मं प्रान्तद्युतिश्वैत्यजितामृतांशु । अस्या इवल्याश्चलदिन्द्रनीलगोलामलश्यामलतारतारम् ॥ अन्नानन्यसदृशत्वप्रतिपिपादयिषयोपमानोपमेयभावो वैवक्षिकः । न चैध द्वितीयेन्दु पदस्यान्यसदृशव्यवच्छेदतात्पर्यकत्वाळाटानुप्रासान्तर्गतिरिति वाच्यम् । इन्दुश्चन्द्र इवेश्यन्न लाटानुप्रासाभावेऽप्यनन्वयालङ्कारसम्भवात् । अत एवानन्वये तु शब्दैक्य- (१) कल्पः-समर्थ इति यावत् । (२) व्याहृतिः-वचनम् ।