५६ राकागमसहिते चन्द्रालोके- मौचित्यादानुषङ्गिकमित्युक्तम् । न चाऽपर्यायप्रवृत्तोपमेयोपमायामतिव्याप्तिः, उपमिति: क्रियाया एकत्वादिति वाच्यम् । अनुगामिना साधारणधर्मेणोपमितेविशेषणीयत्वात् । न छुपमेयोपमायामनुगामी साधारणधर्मः किन्तु बिम्बप्रतिबिम्बभावापन्नः । अत एव- ‘धर्मार्थकामेषु समं प्रपेदे यथा तथैवाऽवरजेषु वृत्तिम् । इत्यादौ अवरजविषया वृत्ति. धैर्मार्थकामविषयवृत्तिसदृशीति वृत्तेहपमानोपमेयत्वेऽप्यनुगामिना धर्मेण नेयमुपमा, किन्त्ववरजानां धर्मादीनां च बिम्बप्रतिबिम्ब भावेनेति न तत्रानन्वयप्रसकिः । एवञ्च-- उपमानतावच्छेदकोपमेयतावच्छेदकसाधारणधर्मावच्छेदकैक्यविशिष्ट यन्त्रैकोपमिति. किया तन्नानन्वय इति तत्त्वम् । व्यङ्गयानन्धयो यथा- श्रीराम ! ताटकान्तक ! तव दर्शनसम्भवोऽद्य मे हर्षः । भाग्येन पुनर्भविता समये वनेनैव ॥ अत्र त्वदर्शनभवा प्रीतिः पुनरपि बहुना कालेन त्वदर्शनेनैव भवेन्नान्येनेत्युकि. मङ्गया त्वद्दर्शनजन्यप्रीतेः लैव सहशी न वितरप्रभवेति व्यज्यते ॥ १२ ॥ उपमेयोपमामाह- पर्यायेण इयोस्तच्चेपमेयोपमा मता। धर्मोऽर्थ इव पूर्णश्रीरर्थों धर्म इव त्वयि ॥ १३ ॥ पर्यायेणेति । अनन्वये द्वितीयसदृशव्यवच्छेदः उपमेयोपमायां तृतीयसडब्यव. च्छेदः फलम् । इयं च पर्यायप्रवृत्ती अपर्यायप्रवृता चेति द्विधा । आयामुदाहरति- धर्म इति । यथा वा-- । अमलेव मतिर्मतिरिख कमला तनुरिव विभा विभेव तनुः । धरणीव धृतिर्धतिखि धरणी सततं विभाति बत ! यस्य ॥ द्वितीया यथा-- तद्वल्गुना युगपदुन्मिवितेन ताव- त्सद्यः परस्परतलामधिरोहर्ता है । प्ररूपन्दमानपरुषतरतारमन्त- | श्चक्षुस्तव प्रचलितभ्रमरं च पन्नम् ॥ अन्न साह्यस्थैकेन व्यापारेणोपादानात् । अन्नाप्युपमावत्पूणदिभेदी उन्नेयाः१३॥ प्रतीपोपमामाह-- विख्यातस्योपमानस्य यत्र स्यादुपमैयता । इन्दुमुखमिवेत्यादौ स्यात्प्रतीपोपमा तदा ॥ १४ ॥ . विख्यातस्येति । विख्यातस्येतिविशेषणात् स्वकल्पितपमानस्योपमेयत्वे नं प्रतीपोपमालङ्करः। 'इन्दुर्मुखमिवेति लक्ष्यम् । इयै च वक्ष्यमाणप्रतीपेक्षया भिन्ना,. इपमाया वाच्यत्वात् ॥ १४ ॥
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१०५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति