पञ्चमो मयूखः । -
- -*
-* . निःश्वासैः पवनायितं वरतनोरङ्गः कदम्बायितं | कान्त्या केतकपत्रकायितमहो ! दृग्भ्यां पयोदायितम् ॥ सम्बन्धातिशयोक्तिः सा तदभावेऽपि तद्वचः । पश्य सौधाग्रसंसक्त विभाति विधुमण्डलम् ॥ ४४ ॥ सम्बन्धेति । असम्बन्धे सम्बन्धकथने सम्बन्धतिशयोकिः । सौधाणामस: त्यपि विधुमण्डलसम्बन्धे तत्कथनात् ॥ ४४ ॥ भेदकातिशयोक्तिश्चेदेकस्यैवान्यतोच्यते । अहो ! अन्यैव छावण्यलीला बाळाकुचस्थळे ।। ४५ ॥ भेदति । असति भेदे भेदकथनं लोकप्रसिद्धपदार्थापेक्षया चमत्काराभिधायके भेदकातिशयोक्तिः । लोकप्रसिद्धलावण्याभेदेऽपि भेदकथनात् । यथा वा- तस्मिन्नियं सेति सखीसमाजे नलस्य सन्देहमथ व्युदस्यन् ।। अपृष्ट एवं स्फुटमाचचक्षे स कोऽपि रूपातिशयः स्वयं ताम् ॥ इर्दै च पूर्वोत्वसवतिशयोक्तीनामुदाहरणम् । 'युदस्यन्नाचचक्षे स' इति सन्देह युदासाख्यानयोः कार्यकारणयोगपद्यस्य पौवपर्यस्याप्युः , अपृष्ट एवेत्यनेन प्रश्नस्य सम्भावनाकल्पना कर्तृत्वासम्बन्धे सम्बन्धकथनाच्च । भेदकं तु स्पष्टमिति ॥ ४५ ॥ रूपकातिशयोक्तिश्चेदूप्यं रूपकमध्यगम् । पश्य नीलोत्पलद्वन्द्वान्निःसन्ति शिताः शराः ।।४६।।। रूपकेति । आरोग्यारोपविषयोरारोप्यरूपात्मनैव कथन रूपकातिशयोक्तिः । आरोपविषयनेत्रकुटाक्षयोरारोप्यकमलारत्वरूपेण आरोपविषयनिगरणेनारोष्यप्रतिपसि. रिति यावत् । इयं च निगयोध्यवसानातिशयोकिरिति काव्यप्रकाशे कथिता । यथा वा- विहायसि विहारिणी भवतु नाम सौदामिनी सुमेरुशिखरादधः पततु नाम मन्दाकिनी । इदं तु महदद्भुतं यद्यमेत्य भूमीतलं जमन्नमृतदीधितिः कमलसारसाकर्षति ॥ अत्र चन्द्रत्वकमळत्वान्यामारोपविषययोर्मुखयोरध्यवसानम् । इयं च रूपकगति कृपकभेदभेदोऽवसेयः । या तु काव्यप्रकाशे यद्यक्तिकल्पिततिशयोक्तिरुका, सो वक्ष्यमाणसम्भावनान्तर्गंतेति नोका । अलङ्कारसर्वस्वे तु- यद्यपहवगर्भवं सैव सापडवा मता। .. त्वत्सकिषु सुधा राजन् ! प्रान्ताः पश्यन्ति तां विभौ'।