कागमसहिते चन्द्रालोके- निदेचे प्रतिवस्तूपमा । तेन नावृत्तिदीपकान्तर्गतिः । ‘इपमा साइवयं प्रतिवस्तु प्रति, वाक्याथै यस्यामिति नामयोगः । तत्र च पदावृत्ती कथितपदत्वापत्या पदभेदेन तदुक्ति- बध्या । तापेनेति । 'राजते। इत्येकस्य धर्मस्य पृथक्पदाभ्यां निदेशाल्लक्ष्यत्वम् । यथा वा- त्वयि वीर ! विराजते परं दमयन्तीकिलकिञ्चितं किल । तरुणीस्तन एवं दीप्यते मणिहारावलिरमणीयकम् ॥ यथा वा- |. कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः । न झुकूपारवत्कृपा वर्धन्ते विधुआन्तिभिः ॥ अत्र तोषाभाववृद्धयभावधर्मणेतरकूपयोरुपमा । वैधम्र्येण यथा-- षट्पद एव नितान्तं सम्प्रति सहकारसौरभाभिज्ञः । न हि भेकमीनपकिः कमलाऽऽमोदं विजानाति ॥ शब्दावृत्तावेव आवृत्तिदीपकम्, अर्थावृत्तौ त प्रतिवस्तूपमेश्याहुः ॥ ६६ ।। दृष्टान्तालरिमाह- चेद् बिम्बप्रतिबिम्बत्वे दृष्टान्तस्तदळकृतिः । स्यान्मल्लप्रतिमल्लत्वे सङ्ग्रामोद्दामहुङ्कृतिः ।। ५६ ।। दृष्टान्तश्चेद्भवन्मूर्तिस्तन्मा दैवदुलिपिः । जाता चेप्राक् प्रभा भानोस्तहिं याता विभावरी ॥ ६७ ॥ वैदिति । धर्मसहितस्योपमानस्य धर्मसहितस्योपमेयस्य च बिम्बप्रतिबिम्ब- भावबोधकसमभिठ्याहारे साधारणधर्मोपमानोपमेयत्वानां सर्वेषां बिम्बप्रतिबिम्बभाव- प्रणिधानगम्यत्वे वा दृष्टान्तालङ्कारः । साधारणधर्मसहितस्येति विशेषणात्तुल्ययोगिता दीपकप्रतिवस्तूपमानां व्यावृत्तिः । मल्लप्रतिमलत्वे सङग्रामसम्बन्धिनी उद्दामहः कृतिः स्यात् । अत्र पूर्षवाक्यातरवाक्यर्थियोबिम्बप्रतिबिम्बभावाललक्ष्यमपीदमेव । मप्रतिमल्लल्वे यथा सङ्ग्रामोद्दामहुकृतिः स्यात्तथा बिम्बप्रतिबिम्बत्वे उडान्ता छतिः स्यादिति पदान्वयः। दृष्टान्तसहितस्य बिम्बप्रतिबिम्बत्वस्य हुतिसदि. तस्य मल्लप्रतिमल्लत्वस्य बिम्बप्रतिबिम्बभावः । अन्ये तु-‘साधारणधर्मयोप- मानयोक्पमेययोश्च बिम्बप्रतिबिम्बभावो न तु विशिष्टस्येश्स्याहुः । अस्य क्लिष्टत्वा- क्लिष्टदाहरणान्तरमाह-दुष्टेति । अन्तहृदये भवन्मूर्तिद्देष्टा तदा दवलिंपिसृष्टा, प्राक प्राध्यां यदि भानोः प्रभा जाता तदां रात्रिर्गतेति । अत्र स्पष्टः साधारणधर्मादीनां विमप्रतिविम्वभावः । यथा वा- बेलातिगस्त्रैणगुणाधिवेणिने योगयोग्यासि नलेतरेण । संम्यते वर्मगुबेव मल्खामाख्या में मृदी भुशकचैन ।
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१२७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति