राकागमसंहिते चन्द्रालोके- --- - अत्र इषुक्षेपधनुर्धारणरूपक्रिययेष्टानिष्टजनकार्थावबोधनात् ॥ ६८ ॥ व्यतिरेकालङ्कारमाह- --व्यतिरेको विशेषचेदुपमानोपमेययोः । शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः ॥२९॥ व्यतिरेकइति । यत्रोपमानापेक्षयोपमेयस्याधिक्यप्रतिपादनं तत्र व्यतिरेकालङ्कार इत्यर्थः। तच्चोपमेयाधिक्यप्रतिपादनेनोपमानन्यूनत्वप्रतिपादनेनोभयप्रतिपादनेन चेति। विधाप्युपमानोपमेयभावे शाब्दे आर्थे चेति षोढा । आद्योदाहरण शैला वेति । उप- मायाः शाब्दत्वात प्रकृतिकोमला इत्युपमेयाधिक्यप्रतिपादनात् । अयें कलङ्कितचन्द्रा- दुकलङ्को विशिष्यते । इत्यादि द्वितीयाद्युदाहरणं बोध्यमिति प्राञ्चः। 'अपमानन्यूनत- प्रतिपादने प्रतीपाख्यमलङ्कारान्तरमिति मूलाशयः । केचितु—हनुमदाबैर्वशसा मया पुनर्दिष हसत्यपथः सितीकृतः ।। 'मयाप्तं रामत्वं कुशलवता न त्वधिगता' इत्यादौ अपमानापेक्षयोपमेयस्य न्यूनत्वप्रतिपादनेऽपि व्यतिरेकाल” इत्याहुः अस्य व्यतिरेकालङ्कारस्य चतुर्विंशतिभेदाः । उपमेयाधिक्यप्रतिपादकविशेषणोको उपमानन्यूनताप्रतिपादकविशेषणोकौ छभयोकावुभयानुको चेति चत्वाः । चत्वार उपमायाँ शाब्याम् अस्थि व्यङ्ग्यायां चेति द्वादश । एवं इलेषे द्वादशेत काव्य प्रकाशः । तन्न, उभयानुकौ उपमेयाधिक्यरूपव्यतिरेकज्ञामाऽसम्भवाव ॥६६॥ । सडोक्यलङ्कारमाह-- सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः ।। | दिगन्तमगमद्यस्य कीर्तिः प्रत्यथिभिः सह ॥६०॥ सहाकिरिति । उपमानोपमेयभावकल्पकसहत्वोको सहोक्यलार इत्यर्थः । दिगन्तेति लक्ष्यम् । अत्र साहित्यबलेनैव कीर्तिनिष्ठदिगन्तगमनस्य वैरिनिष्ठत्वप्रतीते- रुपमानोपमेयभावकल्पनम् । अन्य साहित्यस्य वैरिणोऽपि.दिगन्ते गताः इति वण्र्यं. निष्ठाऽतिपौषरूपचमत्काराधयिकत्वात् । यथा वा- क्षणादथैष ऋणदापतिप्रभः प्रभञ्जनाऽध्येयजवेन वाजिना। सहैव ताभिर्जनदृष्टिबृष्टिभिर्बहिः पुरोऽभूत् पुरुहूतपौरुषः ॥ (१)अन्न राजनिष्ठपुरबहिर्भावस्य दृष्टिनिष्ठताप्रत्ययेन कल्यसादृश्येनान्यविषया- अर्शनादिरूपचमत्कारधानात् । अयं च इलेषगर्भोऽपि । यथा- अनेन साधः तव यौवनेन कोटि परामच्छिद्रोऽध्यरोहत् । | "प्रेमाऽपि तन्वि ! त्वयि वासस्य गुणोऽपि चापे सुमनःशरस्य ॥ अत्र 'कोटिपस्यात्यन्ताधिक्यधनुकोटिपरत्वात् इलेषः ॥ १० ॥ - । । । (१}इत अन्य *मैमापि’ हुत्यन्तः पादः ख-पुस्तके नास्ति ।..
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१२९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति