पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ राकागमसहिते चन्द्रालोके- कार्यकथने तादृशसामान्योपस्थापकविशेषकथने तादृशविशेषोपस्थापकसामान्यकथने सहशोपस्थापकसशकथने अप्रस्तुत प्रई सालङ्कार इत्यर्थः । कार्येति । आदिना तुल्यार्थ- ग्रहणम् । अप्राकरणिकश्वार्थः कार्यरूपो हेतुरूपः सामान्यरूपो विशेषरूपः सदृशवस्तुरूप चेति पञ्चविध इत्यर्थः । तदुकम्-- ‘का निमित्तै सामान्ये विशेष प्रस्तुते सति । तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधी ॥ इति । निमित्ते कारणे तदन्यस्य कारणास्तुल्ये प्रस्तुते तुल्यस्य यदुचनमित्यर्थः । कमलैरिति । कमलः सुन्दरम् आसादी'त्यन्वयः । अत्र कमलानां जलकार्यत्वात्कारणी भूतजलनिष्ठसौन्दर्यस्योपस्थितिः ‘कमलावासैः किं किं नासादीश्यन्वयः। अन्न कमला- वारिति करणोक्त्या सीमनोहरकार्योपस्थितिः । अयम्बुधेरिति । अत्र 'अम्बुधेः पारमिति विशेषोक्त्या परदेशगमनाद्युद्योगसामान्योपस्थितिः । व्यवसायिन' इति सामान्योक्त्या प्रकृतकार्य विशेषोपस्थितिः । तुल्येन तुल्योपस्थितिरपि प्रकृतवाक्यार्थ- ज्ञानोत्तः समासोक्त्यो जायत इति । यथा वा- स्मारै ज्वरं घोरमपत्रपिष्णोः सिद्धागदङ्कारचये चिकित्सौ । | निदानमौनादविशद्विशाली साङ्क्रामिकी तस्य कजेव लज्जा । अत्र ननिष्ठलज्जारूपकार्योक्त्या कारणीभूतदमयन्तीविषयानुसरणोपस्थितिद्वारा स्मरेण वर्थ योजना कृतेति प्रकृतोपपत्तिः ।। पतगेन मया जगत्पतेरुपकृत्यै तव कि प्रभूयते । इति वेथि, न तु त्यजन्ति मां तदपि प्रत्युपकर्तुमर्तयः ॥ अन्न प्रत्युपकारेच्छारूपकारणोक्त्या प्रकृतगमनपस्थितिः ।। क्रमेलकं निन्दति कोमलेच्छुः क्रमेलकः कण्टकलम्पटतम् । प्रीतौ तयोस्टिभुजोः समायां मध्यस्थता नैकतरोपहासः ॥ अश्न 'कोमलेच्छुकमेलको नोपहसनीयौ' इति विशेषोक्त्या सर्वोऽपि स्वेष्टेच्छु- नपसनीयः इति सामान्योपस्थितिः ।। नित्यं नियत्या परवत्यशेषे कः संविदानोऽप्यनुयोगयोग्यः । अचेतना सा च न वाचमद्वक्ता तु वकश्रमकर्म भुङ्क्ते ॥ अन्न अनुयोगकर्तृत्वसामान्योक्त्या तादृशसखीविशेषोपस्थितिः । तुल्योक्या सुस्योपस्थितिमिधा, इलेषेण समासोक्या सादृश्यमानेणेति । यथा- ध्वनिरतिमधुरः शुचित्वमुच्चैर्जनिरपि शङ्ख ! नदीनतस्तवाभूत् । अवगतमखिलं बहिस्तदेतत् कुटिलतरे पुनरन्तर न विद्मः ॥ स्मासोक्त्या यथा-- आगच्छतामपूणन पूर्णानां प्रतिगच्छताम् । यद्धवमि न सो घटानां, तद् वृथा सरः ॥