राकागमसहिते चन्द्रालीके- भेदः । न चैवमनुमानाकाव्यलिङ्गस्य को भेदः ? उपपदिनीयर्थोिक्त्यनुक्तिभ्यां तयोः मैंदात । हनुमानित्युदाहरणम् । 'महात्मनां सर्वे सुकर' मिति सामान्यार्थस्याब्धितरण- रूपविशेषेणोपपादनात् । विशेषस्य च सामान्येनोपपादनात् । उपपादनं च साश्येन वैधम्र्येण वा । अब्धितरणस्य दुष्करस्य च साश्यात् । यथा वा- त्वया निधेया ने गिरो मदर्थाः ऋधी कदुष्णे हृदि नैषधस्य । पित्तेन दुने रसने सितापि तिकायते हंसकुलावतंस ! ॥ अत्र 'कुढ़े नौ मदीया वात न वक्तव्येति विशेषाभिधानस्योपपादकः पुष सामान्यस्य दोषेणान्यथावस्थितार्थ ल्यान्यथाभानरूप उक्तः ॥ ६८ ॥ विकस्वरालङ्कारमाह- यस्मिन् विशेषसामान्यविशेषाः स विकस्वरः । स न जिग्ये महान्तो हि दुर्धर्षाः क्षमाधरा इव ॥ ६९ ॥ यस्मिन्निति । उपन्यस्तस्य विशेषस्य समर्थनार्थ सामान्योपन्यासे ऋते तावता परितोषाभावात्पुनरुपमा नभूतार्थ विशेषोपन्यासेन तत्समर्थने विकल्वरालार इत्यर्थः । उदाहरणं स इति । अत्र ‘स न जितः इति विशेषरूपेणाभिधानोत्तर महान्तो हि दुर्धषः इति सामान्यरूपेणाभिधाने कृते १६माधरा इवेति पुनरुपमानभूतविशेषरूपा भिधानम् । यथा वा- अलं विलम्ब्य त्वरितुं हि वेला कार्ये किळ स्थैर्यसहे विचारः । गुरूपदेशं प्रतिभेब तीक्ष्णा प्रतीक्षते जात न कालमतिः ॥ अत्राथचरणेन कार्यविशेष विलम्बवारण उपन्यख्ते सामान्येन च तत्समर्थने कुते पुनरुपमानीभूतविशेषोपादानम् ॥ ६९ ॥ पर्यायोक्त्यलङ्कारमाह- कायांचे प्रस्तुतैरुक्ते पयायोक्तिं प्रचक्षते । तृणान्यङ्करयामास विपक्षनृपसबसु ।। ७० ।। कार्याचैरिति । प्रकर्षेण स्तुतैः स्तुतिविषयैः कायद्यैरुके गम्ये वक्तव्याथै इति शेषः । कार्यादीत्युपलक्षण कारणसम्बन्ध्यादेरपि । एवञ्च-गम्यस्य विवक्षितस्वरूप दक्चिमत्कारजनसाधारणधर्मेणाभिव्यञ्जने पर्यायोचिरित्याशयः । तृणनीति लक्ष्यम्। य इत्यध्याहृत्य सोऽस्तीत्यादिना वाक्यार्थः पूरणीयः । अरिभवननिष्ठतृणाङ्करोत्पादक- तया प्रस्तस्य राज्ञो गम्यत्वात् । यथा वा- यस्तवि ! भतो झुसणेन सायं दिशः समालम्भनकौतुकन्याः । आशापतिस्ते दमयन्ति ! सोऽपि स्मरेण दासीभवितुं न्यदेशि ॥
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१३५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति