पञ्चमो मयूखः । यथा वा- विद्यासन्ध्योदयोद्रेकादविद्यारजनीक्षये । यदुदेति नमस्तस्मैं कस्मैचिद्विश्वतस्त्विषे ॥ अन्न सूर्यस्तकालीनोदयकर्म(क)त्वेनासाधारणेन रूपेणाभिहितः । यथा वा- येन त्रिसप्तकृत्वो नृपबहलवसामांसमस्तिष्कपडू प्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिप्रेऽभिषेकः । यस्य स्त्रीबालवृद्धावधिनिधनविधौ निर्दयो विश्रुतोऽसौ राजन्योच्चसकुटक्रथनपरटखोरधारः कुठारः ॥ अक्ष गम्यः परशुराम एकविंशतिवारक्षत्रियक्षयकारणत्वेन कुठारसम्वन्धित्वेना- भिहितः । यथा वा(१)- तीर्णः किमर्पोनिधिरेष नैव सुरक्षितेऽभूदिह यत्प्रवेशः ।। फलं किमेतस्य तु साहसस्य न तावदथापि विनिश्चिनोमि ॥ अत्र 'किमर्थमागतोऽसीति गम्यं भयन्तरेणाभिहितम् । एवञ्च-गम्यस्यार्थस्य भयन्तरेणाभिधानं पर्यायोचिरिति सम्प्रदायः । मिन्नकारकप्रकारकयोवध्यध्याक्ष- निकयोरर्थयोरैक्यं पर्यायोकिः । ये प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता । मदनैरावणमुखे मानेन हृदये हरेः अत्र मदमानयोः प्रेक्षणप्रीत्यसम्मवादुककारकप्रकारेण तात्पर्याभावाद्वाच्यानामेव मदमानैरवणेन्द्राणां कारकान्तरप्रकारेण व्यङ्ग्यता । मदमानहीनत्वरूपोऽर्थ उभयत्रा- प्येक एव । यथा निर्विकल्पकसविकल्पकयोर्विशेषणविशेष्यभेदसंसर्गाविषयकतद्विषय. क्योविषयैक्यम् । अन्न 'ऐरावणवाक्री मदमानमुक जाताविति व्यङ्ग्यम् । इति कादयः प्रकाशः । यथा वा--स्ववृत्तितत्तज्ञ्जनयन्त्रणार्तिविश्रान्तिमायुः ककुभ विभागाः ।। अन्यत्र तु-पर्यायोकं तदप्याहुर्यदू व्याजेनेष्टसाधनम् । यथा-- विमातृपुत्रस्य अरस्थकेतकीपुष्पं जिघृक्षुः शिषुष रोदिति । हसन्तु सवें विकिरन्तु कण्टकाजुच्चैस्तर, यामि तथापि तद्वनम् ॥ अत्र वनगमनव्याजेन स्वैरविहार इष्टः प्रतीयते ॥ ७० ॥ व्याजस्तुल्यलङ्कारमाह । उक्तियाँजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः । कस्ते विवेको नयास स्वर्ग पातकिनोऽपि यत् ॥ ७१ ॥ उक्तिरिति । निन्दया स्तुतेः स्तुत्या ३ निन्दाथी उक्तिव्यजस्तुतिरित्यर्थः । कस्ते विवेक' इति निन्दया 'पापिनोऽपि स्वर्ग' नयसीति स्तुतिः ।। (१) 'यथा वा इत्यारभ्य भङ्यन्तरेणाभिहितम्' इत्यन्तं नास्ति ख-पुस्तके।
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१३६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति