राकागमसहिते चन्द्रालोके- L
अपाय निखिलकृत्यं विहाय निद्रामपि त्वरयो । | प्रातर्यदागतोऽसि प्रभो ! तदुन्नीयते महाग्यम् ॥ इयं च स्तुतिमुखी निन्दा । अत्र स्तुतिनिन्दयोरेकविषयत्वं बोध्यम् । अन्य स्तुतिनिन्दाभ्यामन्यस्तुतिनन्दयोरप्रस्तुतप्रशंसेति केचित् । अन्यत्र-- स्तुत्या स्तुतेरभिव्यक्तिव्यजस्तुतिवदाहृता । निन्दाया निन्दया व्यकिव्याजनिन्देति गीयते ॥ इयं च विषयभेदे यथा-- . बहुरूपकशालभर्जिकामुखचन्द्रेषु कलङ्करडुवः । यदनेककसौधन्धराहरिभिः कुक्षिगतीकृता इव ॥ अन्न शाळभजिकामुखचन्द्रे निष्कलङ्क(त्व)स्तुत्या नगरीस्तुतिः ।। | त्वमुचित नयनाचिषि शम्भुना भुवनशान्तिकहोमहविः कृतः ।। | तव वयस्यमपास्य मधु मधै हतवता हरिणा बत ! किं कृतम् ॥ अत्र पूर्वाधे महादेवस्तुत्या कामनिन्दा । उत्तरार्धे विष्णुनिन्दया कामनिन्दा ७१।। आक्षेपालङ्कारमाह- आक्षेपस्तु प्रयुक्तस्य प्रतिषेधो विचारणात् ।। चन्द्र ! सन्दर्शयात्मानमथवाऽस्ति प्रियामुखम् ॥ ७२ ॥ आक्षेप इति । प्रयुक्तस्य उपमानत्वेन संमतस्य, विचारणात् 'उपमेयमेतत्कार्य. क्षममिति विचारेण प्रतिषेध अनर्थक्यकथनम् आक्षेपालार इत्यर्थः । प्रियामुखे जयिनि सति नोचितं वदर्शनमिति प्रतिषेधादयत्वम् । यथा वा- तदोजसस्तयशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा । तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलना विधोरपि ॥ यद्वा प्रयुक्तस्येत्युपलक्षणम् । उकवक्ष्यमाणविषयको युक्तिपूर्वको वस्तुतः प्रतिषेधो यः स्तुतिनिन्दाच्यञ्जक, स आक्षेपः । स्तुतौ मधोनस्त्यज साहसिक्यं वक्तुं कियत्तं यदि वेद वेदः । वृथोत्तरं साक्षिणि हृत्स नणामज्ञातृविज्ञापि ममापि तस्मिन् ॥ (१)'प्रतीप द्विविधम् , उपमानस्य वैयर्यकथनमुपमेयत्वकथनं च । तेन प्रतीपा- न्तर्गतोऽयमिति काव्यप्रकाशः । अन्यत्र,तु- वस्तुतो वकुमिष्टस्य विशेषप्रतिपत्तये । निषेधाभासमाक्षेप बुधाः केचन मन्वते । प्राधान्येन वफुमिष्टयाशक्यवक्तव्यत्वातिप्रसिद्धत्वज्ञानफलको योऽवभासते निषेधः, (१) इत आरभ्य काव्यप्रकाशः' इत्यन्तं नास्तिख-पुस्तके।