पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[२]

प्रायो वकुलभञ्जरीगलदलीनमाध्वीझरीधुरीण पदरीतिभिरेव भजन्ते परमं प्रमोदम् ।पण्डितास्तु खफछठथेति घटपट इत्यपि च विकटां वर्णच्छटां पटु रटन्त एव स्वान्तसन्तोषमुद्घोषयन्ति । तयोव्र्याहृतान्येव परस्परपार्थक्यं सर्वप्रथम प्रथयन्ति । तदिदं व्यक्तमेवावभाति यत् सत्यमेव वर्वतिं सर्गक्रमसंक्रान्त एष कोऽपि निसर्गः प्रतिभावताम् । किन्तु विधेर्विधानमिवेदमपि प्रत्यक्षं प्रेक्ष्यते यत् सर्वस्यैवोत्सर्गविधेर्भवन्ति सत्यमेव काऽपि केचनापवादाः । कविपण्डितयोः प्रकृतिथक्त्वेऽपि ते बहुशोऽनुभूयन्ते । बभूवुरेव पुरा कतिपये महानुभाव येषां धिषणा धिषणस्यापि धियमतिशयाना नैव प्रतिबन्धायाऽभूत् कीर्तिमुशनसोऽप्यपहरन्त्याः काव्यप्रतिभायाः । सममेव धावति स्म मतिस्तेषां शास्त्रे काव्ये च । को न माद्यति ससन्तोषमाचामन् काव्यामृतं शारीरकभाष्यरचनाश्चर्यचर्याणामाचार्यचरणानाम् ? षट्प्रबन्धनिबन्धनोडुरस्य काव्यमीमांसादिविलक्षणग्रन्थनिर्मातुः को न श्रृणोति सानन्दं सुधास्यन्दिनीः सूक्तीः कविराज- राजशेखरस्य ? किमन्यैः प्रत्न्तरैः पुरुषरत्नैः? किं न खलु यवनगणसाम्राज्यविस्रंसित सकलसमयेऽपि समये पण्डितराजो जगन्नाथः प्रादुर्बभूव यद्यप्यैवं तथापि न खलु तादृशाः पुरुषविशेषाः डित्थडविस्थादिवत् प्रतिरथ्यं नेत्रातिथ्यं नीयन्ते । साधूक्तं केनापि--

 "बहवः सन्ति कवयो बहवः सन्ति पण्डिताः ।।
              किन्तु सारस्वताकारो विरलः कविपण्डितः ॥”

 देशविशेषस्य यदा समष्टिरूपं पुण्यं परिपाकं प्राप्नोति तदैवैतादृशाः पुरुषाः भगवतो विभूतिरूपा मानवखरूपमास्थाय पुनन्ति जगतीतलम् ।।  अद्याऽहमासाद्य तादृशमेकं पुरुषविशेषं प्रवृत्तोऽहमात्मानं पवित्रीकर्तुम् । तदीयेतिवृत्ताद्यालोचनमपि तीर्थावगाहनवत् पापप्रमोचनाय भविष्यतीति मे बलीयान् विश्वासः । न खलु स्वल्पसुकृतकृतमेतत् संभवति यत् ‘विलासो यद्वाचामसमरसनिष्यन्दमधुरः कुरङ्गाक्षीबिम्बाधरमधरभावं गमयतिः स सकलशास्त्रपारदृश्वा प्रमाणप्रवीणोऽपि भवेत् । अहो अनुग्रहविशेषः कश्चिदस्मिन् वाग्देव्याः । अस्मिन् ‘चन्द्रिकाचण्डातपयोरिव कवितार्किकत्वयोरेकाधिकरणतामालोक्य’ को न विस्मितो भवेत् ? किमत्र । विचित्रं चित्रं यद्यात्मानमुद्दिश्य स एवं निर्दिशेत--

 "येषां कोमलकाव्यकौशलकलालीलावती भारती
तेषां कर्कशतर्कवक्रवचनोद्गारेऽपि किं हीयते ॥”
॥”

नेदं वृथाऽहङ्कारोत्थं विकत्थनं, किन्तु यथार्थकथनमात्रम् । कियन्तः किन्तु कथयितुमित्थं सन्ति सन्तः समर्थाः ? कोऽयं य एवमुच्चैरुद्दिश्यते ? सोऽयं पीयूषवर्षों जयदेवः ।।

 कोऽयं पीयूषवर्षों जयदेवः ? कोऽयं पीयूषवर्षों जयदेव इत्यनुयोग एवं कश्चिदुत्तरयोगं स्वतोऽवतारयति । जयदेवाभिधानं दधतां मध्ये यः पीयूषवर्षे इत्युपाधिमिव नामान्तरमं च दधाति स्म, स