पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ राकागमसहिते चन्द्रालोके- - - ‘सौकर्येण निबद्धापि क्रिया कार्यविरोधिनी ।' कार्य निष्पादकत्वेन सम्भाव्यमान विरोधित्वेन सम्भावनमपि व्याघात इत्यर्थः । यथा-- हृदय एव तवास्ति स वल्लभस्तदपि किं दमयन्ति ! विषीदसि । हृदि पर न बहिः खलु वर्तते सखि ! यतस्तत एव विषयते ॥॥१६॥ कारणमलालङ्कारमाह- गुम्फः कारणमाला स्याद् यथाप्राक्प्रान्तकारणैः ।। नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः ॥ ८७ ॥ गुम्फ इति । उत्तरोत्तर कारणभूतपूर्वपूर्वेः पूर्वपूर्वकारणभूतोत्तरोत्तरै वस्तुभिः कृतो गुम्फः कारणमालेत्यर्थः । नयेनेति । नयश्रीत्यागयशसामुत्तरोत्तर कारणत्वात्॥२७॥ एझावल्यलङ्कारमाह- गृहातमुक्तरीत्यर्थश्रेणिरेकावली मता ।। नेत्रे कन्तविश्रान्ते कर्णी दोमूलदोलिनौ ॥ ८८ ॥ गृहीतेति । गृहीता च मुक्ता च रीतिर्विशेष्यत्वं विशेषणत्वं च येषामर्थानां तेष श्रेणिः पडूक्तिः, तत्कथने एकावल्यलङ्कार इत्यथैः । नेत्रे इति लक्ष्यम् । तत्र विशेषण त्वेन गृहीतयोः कर्णयोर्विशेषणत्वत्यागेन विशेष्यत्वोकेः । यथा वा- सरो विकसितम्भौजमम्भोजे भृङ्गसङ्गतम् । शृङ्का यत्र ससङ्गीताः सङ्गीतं सस्मरोदयम् ॥ विशेष्यस्य विशेषणत्वेऽप्ययमेवालङ्कारः । यथा-- वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वीपोषु । कमलेषु पतन्त्यलयः करोति सङ्गीतमलिषु सुखम् ॥ अयं व्यतिरेकेणापि । यथा-- न तञ्जले यन्न सुचारुपङ्कजं न पङ्कजं तद् यदलीनषट्पदम् । न षट्पदोऽसौ न जुगुब्ज यः कलं न गुञ्जितं तन्न जहीर यन्मनः ॥-॥८८॥ - मालदीपकालङ्कारमाह- दीपकैकावलीयोगान्मालादीपकमिष्यते ।। स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः ॥ ८९ ॥ दीपकेति । उक्तदीपकालङ्कारस्य एकावल्यलङ्कारयोगे मालादीपक भवतीत्यर्थः । स्मरेणेति लक्ष्यम् । तेन हृदयेनेत्यर्थः एवञ्च-एकक्रियायोगेन पूर्वपूर्वस्योत्तरोत्तर गुणत्वे मालादीपकमिति भावः । यथा चा- त्वयि सङ्गरसम्प्राप्ते धनुषाऽऽसादिताः शराः ।। शरैरशिशिरस्तेन भूस्तया त्वं त्वया यशः ॥॥ ८९ ॥