पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ राकागमसहिते चन्द्रालोके-

दूरादाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका । यद्विद्वद्भवनेषु, भोजपतेस्तयागलीळायितम् ।। न चोदात्तस्यासम्बन्धकथनरूपतया सम्बन्धतिशयोकावन्तभवः । दिव्यलोक- गतसम्पत्समृद्धिवर्णने केवलस्योदात्तालङ्कारस्य सम्भवात् । अन्नार्थिक समावेशादेकेना ऽपरल्याऽनुत्थाप्यत्वाच्च नाङ्गाङ्गिभावः । तस्मादतिशयोकि सद्भावेऽप्युदात्तालङ्कारोऽपि सम्भवतीति । अन्यत्र तु-आशयस्य य उत्कर्षस्तदुदात्तत्वमुच्यते । यथा- पात्रे पुरोवर्तिनि विश्वरूपे सोदीयसि क्षमावलये च देये । ब्रीडास्मितं तस्य तदा तदासीञ्चमत्कृतो येन स एव देवः ॥ तस्य बलेः ॥ ११६ ॥ अत्युक्यलारमाह- अत्युक्तिरभुताsतथ्यशौयदायाँदिवर्णनम् ।। त्वयि दातरि राजेन्द्र ! याचकाः कल्पशाखिनः ॥ ११६ ॥ अत्युकिरिति । अद्भुताऽनन्यसाधारणशोभादानादिवर्णनमत्युक्तिः । 'कल्पवृक्षा अपि त्वां याचन्त' इति ‘तव याचकाः कल्पवृक्षतुल्यदातारो जाता' इति वात्र अत्यु किः । यथा वा-- अनेन सर्वाथिकृतार्थताकृत हृतार्थिनौ कामगवीरमौ । मिथः पयःसेचनपल्लवाशने प्रदाय दानव्यसनं समाप्नुतः ॥ एतावन्तोऽत्रालाराः । ग्रन्थान्तरे त्वन्येऽप्युक्ताः । ते च-- किञ्चिन्मिथ्यात्वसिद्धयर्थं मिथ्यार्थान्तरकल्पनम् । मिथ्याध्यवसितिर्वेश्या वशयेत् खस्रजं वहन् । प्रस्तुते वण्र्यवाक्यार्थे प्रतिबिम्बस्य वर्णनम् । ललितं निर्गते नीरे सेमेषा चिकीर्षेति ॥ दोषस्याभ्यर्थनाऽनुज्ञा तत्रैव गुणदर्शनात् ।। विपदः सन्तु नः शश्वदू या सङ्कीर्यते हरिः ॥ यथा वा- नो ददासि यदि तत्त्वधियं में यच्छ मोहमपि तं रघुवीर ।। येन रावणचमुर्युधि मूढा त्वम्मयै जगदपश्यदशेक्म् ॥ . ग्लेशः स्याङ्घोषगुणयोर्गुणदोषत्वकल्पनम् । दोषे गुणत्वकल्पने गुणे दोषत्वकल्प ४ देशाला।। अखिलेषु विषु हन्त ! स्वच्छन्दवारिषु । शुक पञ्जरबन्धस्ते मधुराण गिरी फलम् ॥