बभू वतुः । इदमपि परमं साधनमयं जयदेवोऽस्माकमभिप्रेतो जयदेवो न वेति निर्णये भृशं भविष्यति ।। वर्तते प्रसन्नराघवं नाम ‘वि तुकृपणहाट नाटकं किमपि केनापि जयदेवेन विनिर्मितम् । पीयूषवर्ष इति जयदेवविनिगमकोपपदमत्र नैवोपलभ्यते, किन्तु पित्रो- नमनी तु समाने एव । तथाहि-
"कवीन्द्रः कौण्डिन्यः स तव जयदेवः श्रवणयो-
रयासदातिथ्यं न किमिह महादेवतनयः ।"
"लक्ष्मणस्येव यस्याऽस्य सुमित्राकुक्षिजन्मनः ।
रामचन्द्रपदाम्भोजभ्रमभृङ्गायते मनः ॥(प्रस्तावनायाम् १४-१५ )
अतः सुमित्रामहादेवतनयत्वसाधम्र्यात् चन्द्रालोककर्तुर्जयदेवस्य प्रसन्नराघव- कवेर्जयदेवस्य चैकत्वं निःसंशयमवसीयते । तदन्येषां जयदेवानामुपलब्धमितिवृत्त- मितस्तत आवर्तयन्तोऽपि न वयं पारयामः प्राप्तुं कस्यापि पिचोर्नामनी सुमित्रामहा- देवाविति । यद्यपि नैतेनानुमीयते यदयं ग्रन्थानन्यान् नो प्रणिनाय; तथापीदं तु सुविशदमेव निष्पद्यते यदयं नान्येन केनाऽपि जयदेवेन नामसामान्यसंभावना- मात्रबलादेवैकीभावं नेतुं शक्यते । तदलं दुरासादासानायासेन । यत्तु कैश्चिद् विपश्चिद्भिरितरजयदेवत्वेनायं गृहीतस्तत् सर्वं भ्रान्तिविजृम्भितमित्यचिरादेव निवे- दयिष्यामः । साम्प्रतं तावदस्य समयो विनिश्चेतुमेव साम्प्रतम् ।
॥ जयदेवस्याविभथकालः ॥
ईदमिदानीं विचारयामः कस्मिन् कालेऽयं समुत्पन्न इति । कोऽयं नामास्माकं संस्कृत साहित्येतिहाससमयप्रविभागो यस्मिन्नयं पीयूषवर्षों जयदेवः पाञ्चभौतिकै कायमधिष्ठाय कवितामृतोत्सारितजरामृतिभयं यशःकायं समाससाद । एतदकथित मेव सर्वतः प्रथितमास्ते यत् सुरभारतीसेवासिद्धानां वृद्धानां बहुशोऽनधिगत- निर्णयो दुरधिगतनिर्णयो वा निःसंशयसमयनिर्धारणायासः । नैवापवादाय भवति जयदेवस्यापीतिवृत्तम् । न खलु वयं यथातथं जानीमः कस्मिन् काले देशे वाऽयं सत्यमेव प्रादुर्बभूव । यद्यप्येवं सर्वथाऽभ्रान्तं विनिश्चेतुमशक्यप्रायो जयदेवस्य समयस्तथाप्ययं प्रयत्नः प्रतन्यते तानि तानि प्रमाणशकलानि संग्रहीतुं यैः कथमप्यू- हितुं शक्यैत तत्समयसामीप्यम् ।। अयं जयदेवः स्वकीये चन्द्रालोके काव्यप्रकाशस्थं काव्यलक्षणमाक्षिपन्निव लक्ष्यते। श्रीमन्मम्मटभट्टः काव्यप्रकाशे काव्यलक्षणमेवमाह-“तददोषौ शब्दार्थी सगुणा- वनलड्कृती पुनः क्वापि” । इदमुद्दिश्य जयदेव इत्थं कथयति-
"अङ्गीकरोति यः काव्यं शब्दार्थावनलङ्कृती ।। |
एतदुक्तं भवति । अलङ्काराणां काव्ये नियतप्रयोजनीयत्वं नैवानुमन्यते मम्मट-