पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[५]

भट्टप्रधानैर्ध्वनिमताध्वनीनैः । भामहोद्धटप्रभृतयः प्राञ्च आचार्या अलङ्कारानेव काव्ये चमत्कारकारणं विनिश्चिक्युः । जयदेवस्तु ध्वनिप्रपञ्चममुञ्चज्ञपि चिरन्तनतराणामेवैतेषा- माचार्याणां मतमूरीकुर्वन् यथोष्णत्वं विना वह्नित्वं नैव सिद्ध्यति तथैव सालङ्कारत्वमपा- कृत्य काव्यत्वमपि नैव सम्भवतीति स्वाभिमतं मतं विमताक्षेपमुखेन व्यक्तं प्रतिपादयति । मम्मटमतमाक्षिपता नियतमेवैतेन तस्मात्पश्चाद् भवितव्यम् । मम्मटभट्टस्य काल एकादशशतकस्यान्तः । मम्मटभट्टस्य काव्यप्रकाशे उदात्तालङ्कारोदाहरणत्वेन भोज- राजप्रशंसात्म कमिदं पद्यं दत्तं दृश्यते--

 "मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः
प्रातः प्राङ्गणसीम्नि मन्थरचलबालाङ्घ्रिलाक्षारुणाः ।।
दूरादाडिम बीजशङ्कितधियः कर्षन्ति केलीशुका
यद् विद्वद्भवनेषु भोजनृपतेस्तत् त्यागलीलायितम् ॥”

 इदं पद्यं स्वग्रन्थे उदाहरणत्वेन समुपन्यस्यन् मम्मटभो भोजराजात स्वस्य पश्चाद्धावित्वं व्यक्तमेवाभिव्यनक्ति । भोजराजो दशाधिकसहस्रमितादारभ्य पञ्चपञ्चाश- दुत्तरसहस्रमितं खिस्तवत्सरं यावद् (१०१०-१०५५ ) राज्यं चकारेति मन्यन्ते भारतेतिहासविद्वांसः । काव्यप्रकाशटीकाकाराणां मध्ये रुय्यकमाणिक्यचन्द्रौ प्राचीनतमौ । रुय्यकः कश्मीरेषु सुस्सलजयसिंहभूपालयो राज्यकालेऽभूदिति सुप्रसिद्धम् । तयो राज्ञो राज्यकालः पञ्चाशदधिकैकादशशतकमितः ख्रिस्ताब्दः ( ११५० )। माणिक्यचन्द्रः स्वटीकाविरचनसमयमेवं स्वयं निर्दिशति-

 “रसवक्त्रग्रहाधीश(१२१६)वत्सरे मासि माधवे ।
| काव्ये काव्यप्रकाशस्य संकेतोऽयं समर्थितः ॥

 जैनानामुत्तरदेशीयानां च . विक्रमवत्सरलेखनस्यैव सुप्रसिद्धत्वात् वैक्रमोऽयं वत्सरः । अयं प्रष्ट्यधिकैकादशशतकमतेन ख्रिस्ताब्देन (११६०) तुल्यकल्पः ।

 भोजराजस्यरुय्यकमाणिक्यचन्द्रयोश्चान्तर्भावित्वान्मम्मटभट्टस्य समयः ख्रिस्ता- ब्दैकादशद्वादशशतकपूर्वार्द्धयोर्मध्ये (१०५०-११५०) संभवति । एतस्मादिदमुपपद्यते यज्जयदेवो द्वादशतकमध्यादूर्ध्वं नेतुं नैव शक्यते ।।  अलङ्कारसर्वस्वमधीतवतां नैतत् तिरोहितं यद् रुय्यकः कतिपयानलक्कारान् सर्व- प्रथमं लक्षणोदाहरणैः प्रथयाम्बभूव । तेषामन्यतमो विकल्पालङ्कारः । तुल्यबल- विरोधो विकल्पः इत्थमेतं सूत्रे लक्षितं लक्ष्यीकृत्य ‘तस्मात् समुच्चयप्रतिपक्षभूतो विकल्पाख्योऽलङ्कारः पूर्वैरकृतविवेकोऽत्र दर्शित इत्यवधातव्यम्' इतिस्फुटमलङ्कारसर्व- स्वेऽभिहितम् । टीकाकारो जयरथोऽपि तमेवार्थं सुविशदं प्रथयन्नित्थं प्रोवाच ‘अनेना- स्य ग्रन्थकृदुपज्ञत्वमेव दर्शितम्' । जयदेवश्चन्द्रालोके ‘विरोधे तुल्यबलयौर्विकल्पालङ्- कृतिता' इति विकल्पं लक्षयद् व्यक्तमेव रुय्यकोक्तं लक्षणं यथायथं गृह्णाति। नैताव- देवास्य रुय्यकानुगृहीतत्वम् । केचिदन्येऽप्यलङ्कारा रुय्यकौकदिशैव लक्षयित्वा प्रदर्शिताः। तथाहि-‘स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम्' इति रुय्यकोक्तं विचित्रलक्षण,