पष्टो मयूखः ! १२१ आग यावदेषां कुलमिदमखिलं नैव नि:शेपयामि फर्जन्तः क्रोधवह्नः दधति विरति तावदेते स्फुलिङ्गः ॥-॥ ८॥ वीरमाह- उत्साहाख्यस्थायिभावः प्रभावादिविभावभूः । वीरोऽनुभावैः स्यैयधैिभबैंगवादिभिर्युतः ॥ ९ ॥ उत्साहेति । कार्यारम्भ आदर उत्साहः स्थायी । प्रभावबलमदधादिरुद्दीपन. विभावः । स्थैयादिरनुभावः । आदिपदात् धैर्यवीयरवचनादयः ! गर्वादिय॑भिचारी- त्यर्थः । आदिना- अमः प्रतिबोधश्च वितर्कोऽथ मतिधृतिः । क्रोधास्ये च संमोह आवेगः शोकहणम् ॥ गर्दो मदस्तथोप्रत्व भावा वीरे भवन्त्यमी । अन्यत्र तु- सत्साहात्मा भवेद्वीरस्त्रेधा धर्माऽऽजिदानतः । नायकोऽत्र भवेत्सर्वे: श्लाघ्यैरधिगतो गुणैः ॥ तेन धर्मयुद्धदानरूपविषयभेदेन वीररसन्निधेत्यर्थः । यथा-- सामाङ्गणमागते दामुखे सौमित्रिणी विस्मित | सुग्रीवेण विचिन्तितं हनुमती च्यालोलमालोकितम् । श्रीरामेण परन्तु पीनपुलकस्फूर्जकपोलश्रिया । सान्द्रोक्न्दरसालसा निदधिरे बाणासने दृष्टयः ॥ अयं युद्धवीरः । दानवीरो यथा- मीयत कथमभीप्सितमेषां दीयतां द्रुतमयाचितमेव । तं धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसरं सहते यः ॥-॥ ९ ॥ भयानकरसमाह- व्याघ्रादिभिर्विभावैस्तु वेपितानुभावभृत् ।। भावैमहादिभिर्युक्तो भयस्थायी भयानकः ॥ १० ॥ व्याघेति । ऋरदर्शनजनितं चित्तवैकल्यं भयं स्थायिभावः । व्याघ्रादिदद्दीपन- विमावः । कम्पितीदिनुभावः । मोहादिर्यभिचारी । तादृशो भयानकरस इत्यर्थः । तदुक्तम्- भयानको भवेद्धीतिप्रकृतिरवस्तुनः । से च प्रायेण वनितानीचबालेषु शस्यते ॥ दिगालोकाऽऽस्यशोषङ्गकम्पगद्दसम्भ्रमाः । श्वासववण्यैसम्मोहा वण्र्यन्ते विबुधैरिह ।
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१७०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति