१६ राकागमसहिते चन्द्रालाके- यो- स्फूर्जदूभुजाविंशतिकं समन्तात् समुच्छ्वसद्धीषणवकपक्तिम् । दृष्ट्वैव रौद्रं दशवक्तदेहं सीताऽतिभीता बत ! मूर्छितासीत् ॥ यथा--- कालियरूढे शालिनि वनमालिनि हो ! विभावयन्तीभिः । | व्याळीभिः करतालीहतवक्षोभिश्च कम्पितं भूयः ॥-॥ १० ॥ बीभत्सरसमाह- स्थायी जुगुप्सा बीभत्सो विभावाचैर्यथाक्रमम् । अनिष्ठेक्षणनिष्ठभूतिमोहायाः संमताः क्रमात् ॥ ११ ॥ स्थायीति । दोषदर्शनात्पदाथे गहों जुगुप्सा स्थायिभावः । अनिष्टेक्षणाविरुद्दीपन- विभावः । निष्ठीवनादिरनुभावः । मोहाद्या व्यभिचारिणः । ईडशो वीभत्सरसः । तदुकम्- बीभत्सः स्याज्जुगुप्सातः सोऽहृद्य(१)श्रवणेक्षणात् । निष्ठीवनास्यमादि स्यादन्न महतां न च ॥ उसमान व्यभिचार्यजुभावी नेत्यर्थः । यथा- अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरकोत्पल- व्यग्रोक्तंसनृतः पिनह्य सहसा हृत्पुण्डरीकताः । तत्तच्छोणितपकुङ्कुमजुषः सम्भूय कान्तैः पिब- त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ यथा वा- फेत्कारकृत्फेबभिरधिकृष्टं इवभिविलुब्धैरपि जग्धपृष्ठम् । आ पक्षिभिर्भक्षितसर्धनासमासीद्वपुस्तद्दशकन्धरस्य (२) ॥-॥ ११ ॥ अद्भुतरसमाह- अद्भुतो विस्मयस्थायी मायादिकविभावभूः ।। रोमाञ्चाद्यनुभावोऽयं स्तम्भादिव्यभिचारिकः ॥ १२ ॥ अदभुत इति । छोकसीमाविक्रान्तपदार्थविषयकचित्तविकारो विस्मयः स्थायी । मायादिरुद्दीपनविभावः । रोमाञ्चादिकमनुभावः । स्तम्भादिव्यभिचारी । अयमदूभुत- रस इत्यर्थः । तदुत्वम्- विस्मयात्माऽद्भुतो ज्ञेयः स चाऽसम्भाव्यवस्तुनः । दर्शनात् श्रवणाद्वापि प्राणिनामुपजायते ॥ सत्र नेत्रविकासः स्यात्पुलको स्वेद एव च । (१) सः बीभत्सः । अद्वयमसुन्दरम् , अनिष्टमिति यावत् । (३) सहरण्मतरमिदं अ-पुस्तके नास्ति ।
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१७१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति