पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमी मयूवः ।। उरो सुकुलितस्तनं जवनसंवन्धोदरं । अतेन्दुवदनातनौ तरुणिमो:मो मोदते ॥ इत्यादौ विकासादांना पुष्पादिधर्मत्वेन स्मितादानुपपत्तेः 'विकसितवशितसमु- छलिताऽपास्तसंस्थामुकुलितोद्धरमोदतेशब्दैः प्रसृतत्वाऽऽयतत्वोल्लसितत्वाऽनेक विषयसञ्चारित्वोद्भिन्नत्वयोग्यत्वाऽनियन्त्रितत्वलक्षणया रमणीयतातिशययुक्ताऽनुरा- गित्वसकलवशीकारित्वाऽनुरागातिशयालिङ्गनयोग्यत्वरमणीयत्वस्पृहणीयत्वानि काव्य- वासनापरिपक्कनुदिभिः सहृदयैः प्रतीयन्त इति निविवादम् । तत्प्रतीतिश्च शब्दान्तरण वृस्यन्तरेण वाऽसम्भाविनों तस्यैव शब्दस्य नृत्यन्तरे कल्पयति । स वृतिर्यजना । तथा हि-तत्र शकिः सम्भवति, सङ्कवाऽग्रहा। गङ्गायास्ती इत्यादावपि तत्प्रतीत्या- पत्तेः । 'गङ्गा पावनीश्त्यादविन्यतरवैयथोपत्तेश्च । नापि लक्षणा, अन्वयानुपपत्तेस्ताल्पयां.. ऽनुपपत्तेऽभावेन तद्वीजस्याभावात् । तटादेर्मुल्यत्वाभावेन तद्वाधायभावाच । न हि तट गङ्गापदस्य मुख्योऽर्थः, न वा गङ्गानिष्ठशैत्यपावनत्वादि तीरसम्बन्धि, न वा शैत्यादि प्रतीतिः प्रयोजनवतीति न किमपि लक्षणाबीजमस्ति । प्रयोजनान्तरकल्पनार्या शैत्या दिप्रतीतेः प्रयोजनत्वं न स्यात् । न चास्तु शैत्यादिविशिष्टती लक्षणेति वाच्यम्, गङ्गानिष्ठशैत्यादिविशिष्टतीरप्रतीतेक्षणाफलत्वेन तद्विशिष्टतीरत्वस्य पूर्वमज्ञातवेन लक्ष्यतावच्छेदकत्वानुपपत्तेः । न च पावनत्वादिवैशिष्टयस्यान्यत्रावगतस्य लक्ष्यतावच्छे- दकत्वमस्त्विति वाच्यम् । तद्विशेषप्रतीत्यनापतेः। अतस्तत्र व्यञ्जनैव वृस्यन्तरमिति । किञ्च-व्यञ्जनाऽनङ्गीकारे 'काव्यं रसयतीत्यनुभवसिद्धायाः काव्याज्जायमानाया रस प्रतीते। शब्दित्वं न स्यात् । न हि रसो रसपदेन शृङ्गारदिपदेन वाऽभिधीयते । तत्प्र- योगेऽपि विभावाद्यप्रयोगे रसस्या प्रतीतेः । तदप्रयोगेऽपि विभावादिप्रयोगे प्रतीयमान त्वाच । नापि विभावादिपदेन लक्षणीयः, मुख्यार्थबाधाभावात् । अतो विभावयभि: धानेन प्रतीयमानो रसो व्यङ्ग्य एव । किञ्च-अर्थश्लेषादौ प्रकरणादिना शनिव. न्त्रितत्वेन अनभिधेयार्थान्तरे तदसम्भचात्तस्य तेन सहोपमादेः क्यो लक्षणया वा. प्रतीत्यसम्भवाद् व्यञ्जनयैव तत्प्रतीतिः । किञ्चोत्तमादिकाव्येषु क्वचिद्विधिनिषेधादयो व्ययाः । तत्र शक्तिलक्षणयोरसम्भवादावश्यकी व्यञ्जना ।। ननु शाब्दबोधमात्रे तात्पर्यज्ञानस्य हेतुतकल्पनया सर्वत्रोपपत्रले व्यञ्जनवृस्य. न्तरेण । तथा हि-अस्माच्छब्दाद्वाक्याद्वाऽयम बोद्धव्य' इतीच्छा तात्पर्यम् । तरच अशावतात्पर्य कवाक्याहू बोधाऽनुत्पत्या शाब्दबोधमात्रे हेतुः । श्वरतात्पर्य मादाय च शुदिवाक्यजन्यबोधे न व्यभिचारः । एवं च यावच्छात्प्रतीयते तस्य शब्दार्थत्वकल्पनान्न व्यञ्जनायाः प्रयोजनमिति चेन्न, शब्दजन्यप्रतीतिविषयमान्ने शकिकल्पनायां पूर्वी धावतीत्यादवपरस्यापि शब्दार्थत्वापत्तेः । “पुत्रस्ते जात इत्यादिवाक्येन जायमानहर्षस्यापि वाच्यतापत्तेश्च । मन्त्रनिष्ठयोग्यताज्ञानद्वारेण प्रतीयमानविनियोगस्य शाब्तया श्रौतविनियोगतुल्यतापत्तेश्च । किञ्चैवम् , लक्ष्येऽपि