पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमी मयूखः । ११ कथं व्यङ्ग्यस्य वाच्यत्वसम्भावना । किञ्च- वाणीरकुडेगुड्डीगसउणिकोलाहलं सुणन्तीए । घरकम्मवावडाए बहुर सीअन्ति अङ्काई(१) । इत्यादौ सङ्केतस्थानागमन। व्यङ्गयार्थः । अङ्गाऽवसादरूपत्राच्या मध्यम- काव्यतत्कार्यभूतसम्मोगादिरथप्रतीयमानः शकिलक्षणयोरविषयः कस्य व्यापारस्य वाच्यनियतसम्बन्धस्य अनियसम्बन्धस्य सम्बद्धसम्बन्धस्य च व्यङ्गयस्य प्रतीत्य: सम्भवाद् विपयः । न च सर्वोऽपि व्यङ्गयो लक्षगाविषयः, लक्षगाया वाच्यनियत• सम्बन्धिविषयत्वेन मुख्यार्थबाधादित्रयसापेक्षत्वेन च, विवक्षतान्यपरदाच्ये ध्वनी व्यङ्ग्यप्रतीत्यसम्मवापत्तेश्च । लक्षणायाः शब्दनिष्ठत्वेन व्यञ्जनायाः शक्यलक्ष्यार्थ- भिन्नादिनिष्ठत्वेन विरुद्धधर्मतया लक्षणात्वासम्भवाच्च । नत्वनुमानेन अथोपस्या वा व्ययप्रतीतिः । तेन व्यञ्जनाख्यो व्यापारः कल्प्यते । बालकैः परिवृतो निजाङ्गणे कलिमाचर रघूसम ! स्वयम् ।। निष्कुटेषु वसताऽधुना हरेः पोतकेन शुनको निपातितः ॥ इत्यादौ बहि(२)भ्रमणस्य भयकारणनिर्देशाद् अमणनिवृत्तियङ्गया । अतो ठयञ्जना वृत्तिरावश्यकीति दिक् । सा च व्यञ्जना द्विधः । शकिमूला लक्षणामूळा च । आया नानार्थकदघटित वाक्यात् प्रकरणादिसहकारेणैकवाक्यार्थबोधेऽर्थान्तरबोधस्य प्रकरणादिनियन्त्रित शक्त्याऽसम्भवान्मुख्यार्थबाधायभावेन लक्षणाया अप्यसम्भवाद् व्यञ्जनयैवोपपत्ति- रावश्यकी । यथा-- भद्वात्मनो दुरधिरोहतनोविशाल- वंशोन्नतेः कृतशिलीमुखसङ्ग्रहस्य । यस्याऽनुपप्लुतगतेः पवारणस्य दानाम्बुसेकसभगः सततं करोऽभूत् ॥ इति । यत्र तु द्वयोः प्रकरणं तत्रोभयशक्तिः । यथा पञ्जनलीवर्णने । यत्रापि श्रुती- ऽन्यथानुपपस्या अर्थद्वयभानं तत्रापि शक्तिः । यथा-- प्रियास्ते बभूवुर्भुजङ्गः कलडी पशुनिम्नगा किञ्च मकबरेन्द्रः । गुणेष्वेषु विश्वेश ! नूनं किमूने मयि स्वामिनो यत्कृपायां विलम्बः ॥ अत्र सर्पादिभानोत्तरं किमूनमित्यस्यान्यथानुपपत्या विटत्वादिभानम् । (१) बानीकुओडीनशकुनिकोलाहही ऋण्वत्याः । गृहकर्मव्यापूताया वष्वाः सीदन्त्यङ्गानि ॥ इति संस्कृतम् ।। (२ ) भीरमणल्य-इति -पुस्तके।