पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोकै- द्वितीय तु 'मुखं विकसितेश्यादावुकैव। सापि द्विधा, गूढव्यङ्गया अगूढत्यङ्गया च । आद्या 'मुख विकसिते?त्यादौ । परा ‘उपदिशति कामिनोन यौवनमद एवं ललितानि इत्यत्र वाक्यप्रयोक्तृत्वरूपोपदेशकत्वासम्भवादाविष्कारलक्षणयाऽनायासेन शिक्षादाने व्यज्यत इति । परन्तु गूढव्यङ्गयानां क्वचिद् व्यङ्ग्यतावच्छेदकभानाऽभानाभ्यां वैविध्यं बोध्यम् । वस्त्वलङ्कारभावादिव्यङ्गयेषु तन्नानम् , रसव्यङ्ग्ये तदभानमिति। न हि व्यङ्गों रसादौ शृङ्गारत्वादिभातम् । विगलितवेद्यान्तरत्वरूपभङ्गापत्तेः । अत एवं भावानामिव न रसानां सन्धिबलते इति दिक् ॥ १-२ ॥ एवं व्यञ्जनां निरूप्य तत्प्रयोजनभूतध्वनिभेदानाह दशभिः- अविवक्षितवाच्यस्य द्वौ भेदौ, वाच्यमेव चेत् ।। अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ।। ३ ॥ द्वौ विवक्षितवाच्यस्य लक्ष्यालक्ष्यक्रमात्मकौ । चत्वारिंशद् युतकेन भेदाः षट् चानयोः क्रमात् ॥ ४ ।। त्रिधा शब्दार्थतद्युग्पशक्तिजन्मा स्फुटकमः । रसभावतदाभासप्रमुखस्वस्फुटक्रमः ।। ५ ।। वस्त्वलङ्कारयोक्तिः शब्दाद् द्वौ शब्दशक्तिजौ । अर्थशक्तिसमुत्थस्य भेदा द्वादश, तद् यथा ॥ ६ ॥ चत्वारो वस्त्वलङ्कारमळङ्कारस्तु वस्तु यत् । अलङ्कारमलङ्कारो वस्तु वस्तु व्यनक्ति यत् ॥ ७ ॥ वक्तुः कविनिबद्धस्य कवेव प्रौढिनिर्मितः । स्वसिद्ध वा व्यञ्जकोऽर्थश्चत्वारस्त्रिगुणास्ततः ॥८॥ शब्दाभयभुरेकः स च वाक्यैकसंश्रयः ।। पदैकदेशरचनावर्णवाक्यपदेष्वपि ॥ ९ ॥ प्रबन्धे चेति षोदाऽसौ रसायाख्योऽस्फुटक्रमः ।। एषु सप्तदशस्वेकं परित्यज्याऽस्फुटक्रमम् ॥ १० ॥ ये षोडशाचा द्विगुणास्ते स्युक्यपदाश्रयात् ।। प्रबन्धेऽपि द्वादश स्युरर्थशक्तिभुवो भिदः ॥ ११ ॥ द्वात्रिंशदू द्वादकः षट्, सर्वे सङ्कलिता ध्वनेः ।। भेदाः स्युरेकपञ्चाशत् संभिभास्तु सहस्रशः ॥ १२ ॥