पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकीगमसहिते चन्द्रालोकै- - ---


- -

  • -*-*-*-

शक्त्युद्भवस्य द्वादश अरूफुटकमव्यञ्जयश्चेति सप्तदशस्वित्यर्थः । तेष्वस्फुटक्रमव्यङ्गय विहाय षोडशानां पवाक्यगतत्वेन द्वात्रिंशत्वमित्यर्थः । अर्थशक्त्युद्भवस्याऽन्यानपि द्वादश भेदाना-प्रबन्धेऽपीति । सर्वान् ध्वनिभेदान् उपसंहरति-द्वात्रिंशदिति । सङ्कलिता मिलिताः । सम्मिन्ना इति । अयं ध्वनिरयं ध्वनियमिति संशयविषयत्वेन प्रकृष्यमाणत्वप्रकर्षकत्वरूपानुग्राह्यानुप्राहकत्वेन एकत्यक्षकानुप्रवेशेन च त्रिविधेन स. रेण परस्परनिरपेक्षया संसृष्टया से प्रस्तारः सम्भेदः । अनेन सहस्रशः वेदखाब्धिविय. चन्द्राः (१०४०४) एतावन्तो भेदा भवन्ति । इत्थं चात्र गगना-पदगतार्थान्तरसङक्र- मिताऽविवक्षितवाच्यध्वनेः स्वेनाल्यैश्च पञ्चाशद्धिभेदैः प्रत्येके त्रिविधसरे संसृष्टौ । सस्य ध्वनेश्चतुरधिकद्विशतरूपत्वम् । एवं रीत्या एकपञ्चाशत गणन उक्तसया स्फुट । न च प्रथमस्यकपञ्चाशता सह चातुविध्ये गणिते द्वितीयस्य प्रथमेन सह चातु- विंध्य पूर्वगणनायामेव गमितमिति द्वितीयस्य पञ्चाशतव सह धातुर्विध्यं गणनीयम् । एवम्, तृतीयादेरपि पूर्धपूर्वत्यागेनैव चातर्विध्यगणनायां चतुरधिकत्रिशतोत्तरपञ्च- सहस्राण्येव भवन्ति । यथा-- 'जातिश्चतुर्भिजात्याचैविरुद्धा स्याद् गुणैत्रिभिः । क्रिया द्वाभ्यामथ द्रव्य द्रव्येणैवेति तद्दथे । इति विरोधालङ्कारस्य दशविधत्वमिति वाच्यम् । प्रतियोगिभेदेन भेदस्य भिन्न- तया तत्तत्सइरसंसृष्ट्यादिकृतभेदानामपि भिन्नत्वात् । | अविवक्षितवाच्यो विवक्षिताऽन्यपरवाच्यश्च । आद्यो द्विधा, अर्थान्तरसमित- वाच्योऽत्यन्ततिरस्कृतवाच्यश्च । द्विरूपोऽपि स पदगतो वाक्यगतश्च । यत्रैकमेव पर्दै परिवृत्त्यसहं तदर्थव्यञ्जकम्, तत्र पदगतः । ताशपदवत्वेनैव तत्काव्यस्य ध्वनित्वम्, एकदेशस्थितभूषणेन कामिनीव । यत्रानेकपदानि परिवृत्त्यसहानि तदर्थव्यञ्जकानि, वन्न वाक्यगतः । एवमाद्यस्य चत्वारो भेदाः । द्वितीयोऽपि असंलक्ष्यक्रमव्ययः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विधा । अद्यः-रसभावतदाभासभावोदयभावशान्तिभाव. सन्धिभावशाबलत्वविषयो नामधातुरूपप्रकृतिभागतिरूपविभक्तिभागोपसर्गादिरूप- पदै देशपदवाक्यप्रवन्धवर्णरचनानिष्ठतया पडूविधः । द्वितीयस्तु-उभयशक्त्युत्थः शब्दशक्त्युत्थोऽर्थक्त्युत्य इति त्रिधा । शब्दशक्त्युत्थत्वम् , यत्र तेनैव शब्देन तदर्थं प्रतीतिर्न पर्यायान्तरेण । तेन ‘भद्रात्मनः इत्यादीवभिधामूळव्यञ्जकेऽप्यर्थभेदो ज्ञेयः । यत्र पर्यायान्तरेणापि तदर्थप्रतीतिः, तत्रार्थशक्तिमूलकत्वम् । यत्रोभयरूपेण तदर्थप्रतीतिः, तोमयाकिमलस्वम् । शब्दशक्त्युत्थोऽपि, व्यङ्गयस्य वस्तुरूपता- sळाररूपतया च वैविध्येन द्विधा । सोऽपि पूर्ववत् पदगतो वाक्यगतचेति चतुध । अर्थशक्त्युत्थोऽपि, अर्थस्य वैविध्येन त्रिधा । औचित्येन सम्भाव्यमान एकोऽर्थः । असन्नपि कविप्रौढोकिसिद्धो द्वितीयः । कविकल्पितवस्तृप्रौढोकिसिद्स्तीयः । त्रिवियोऽपि वस्तुरूपोऽलङ्काररूप इति वैविध्येन द्वेधेति षोता। वोडापि ब्यकार्थ-