१५० कामसहिते चन्द्रालौके- अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः ।। सामथ्र्यमौचिती देशः कालोऽभिनय एव च । व्यकिः स्वरश्च शब्दार्थस्याऽनवच्छेदहेतवः ।। शब्दार्थस्य नानार्थकशब्दार्थस्य अनवच्छेदे अनियमेन बाधे सति एते नियमहेतवे इत्यर्थः । यथा-'सशङ्खचक्रो हरिरिति शचक्रसंयोगेन विष्णुहरिपदार्थः । अशङ्खचक्रो हरिरिति वियोगेनेन्द्रः । रामलक्ष्मणाविति साहचर्येण दाशरथिः। 'अहिनकुलमित्यग्न विरोधितया नकुलः पशुः । स्थाणे मज भवच्छिदे' इत्यत्र सामथ्र्याद शिव३ । 'सैन्धव- मानयेत्यत्र भोजनादिप्रकरणालवणादि। ‘मिन्नं भातीति नपुंसकलिङ्गात्सुहृत् । 'मित्रो भातीति पुंलिङ्गादविः । पुरातिदेवइत्यत्र पुरातिसान्निध्याद्देवपदेन शिवः । ‘मधुना मत्तः कोकिल' इति सामथ्र्यान्मधुर्वसन्तः । पातु वो दिनमुख' मित्यन्न मुख प्रारम्भः । ‘गगने भाति चिन्नभानुरिति सूर्यः । 'निशि भाति चित्रभानुरित्यग्निः । ‘एतावन्मात्रस्तनील्यत्र हस्तादिचेष्टया स्तनादीनां कमलकोरकायाकरित्वमेताव- मान्नपदार्थः । स्वरो द्विधा, काकुरूप उदात्तादिरूपश्च । 'जानन्ति ते किमपी’त्यादौ काक्का अज्ञानरूपार्थः । 'इन्द्रशनुवंर्धस्वेत्यादौ द्वितीयेन बहुबोह्यर्थः । द्वितीयस्तु वैदे एव न काव्ये । व्यकिः प्राकट्यम् । ‘कुपितो मकरध्वज इत्यत्र कुपितपस्याभि. व्यकिरर्थः । अर्थसामथ्यचितीनां भेदं नाकलयामः । अन्न संयोगादिनाऽभिधानिय- न्त्रणे सत्यन्तरे शक्त्यसम्भवामुख्यार्थबाधाअसम्भवेन लक्षणाया अप्यसंम्भवात् उत्प्रतीतिव्यञ्जनौवेत्याशयः । यथा-- यथावदस्मै पुरुषोत्तमाय तां से साधु लक्ष्मी बहुवाहिनीश्वरः ।। शिवामथस्वस्य शिवाय नन्दन ददे पतिः सर्वविदे महीभृताम् ॥ अन्न प्रकरणे शक्त्या भीमबोधोतरं यजनया सागरहिमालययोधः ॥१७॥ महादेवः सत्रप्रमुखमखचिचैकचतुरः | सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्राळोके महति मुनिसङ्ख्यः सुखयतु ॥ १८ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवकृते चन्द्रालाकालङ्कारे ध्वनिनिरूपणाख्यः सप्तमो मयूखः । विशेश्वरापाख्येन गागाभटेन धीमता । चन्द्रालोकस्य विवृतिर्मयूखे सप्तमे झता ॥ ४ िमीमांसकगागाभरतचन्द्रालोकटीकाय सप्तमो मयूखः ।
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१९९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति