नवमो मयूखः ।। १६ = सङ्करसंसृष्टिभ्यां पुनरप्युइयोतते बहुधा । इति । अत्र यदा तु वस्तुमात्रैणालङ्कारो व्यङ्ग्यस्तत्र वस्त्वपक्षयाऽलङ्कारस्य चम- त्काराधायकत्वावश्यम्भावान्न गुणीभूतव्यङ्ग्यता, किन्तु ध्वनित्वमेवेल्यवधेयम् ॥१०॥ महादेवः सत्रप्रमुखमखविचैकचतुरः । सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ मयूखस्तेनासौ मुकविजयदेवेन रचिते चिरं चन्द्राळके महति वसुसङ्ख्यः सुखयतु ॥ ११ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवक्ते चन्द्रालोकालङ्कारे गुणीभूतव्यङ्ग्यनिरूपणनामाष्टमो मयूखः । विश्वेश्वरापराख्येन गागाभट्टेन धीमती । चन्द्रालोकस्य विवृतिर्मयूखेऽष्टमिते कृता । इति मीमांसकगागाभट्टविरचितचन्द्रालोकटोकाया राकागमाख्यायाम अष्टमो मयूखः । नवमो मयूखः । शब्दवृत्तिव्यञ्जना निरूपणेन स्मृतध्वनिगुणीभूतव्यङ्ग्यभेदान्निरूप्य, यत्प्रसक्त्या यो विचारस्तत्समाप्तौ स एव बुद्धिस्थो भवतीति स्मृतशब्दवृत्तिप्रसङ्गेन लक्षणां निरू. पति- मुख्यार्थस्याविवक्षायां पूर्वाऽर्वाची च रूढितः ।। प्रयोजनाच्च सम्बन्धं वदन्ती लक्षणा मता ॥ १ ॥ मुख्यार्थस्येति । मुख्यार्थस्याविनक्षी लक्षणाबीजं वदता मुख्यार्थबाधस्य लक्षणा- बीजत्वं निरस्तम् । अर्थान्तरसङ्क्रमितवाच्येऽन्वयानुपपत्तिरूपमुख्यार्थबाधाभावेऽपि अविवक्षारूपतात्पर्यानुपपत्तिसम्भवात् । एवञ्च वेदे न्यायानुगृहीतेश्वरतत्पनुप- पत्तिलँक्षणाबीजम् । अत एव न शाब्दबोधमात्रे तात्पर्यज्ञानस्य हेत्ता, किन्तु लाक्ष- णिकशाब्दबोध एवेति । इदमवधेयम्-लाक्षणिकपदं नानुभाविकम् , वाक्यानुभव शकिज्ञानस्यव हेतुत्वात् । वृत्तित्वस्य शक्तिलक्षणान्यतरत्वेन गुरुवया वृत्तिज्ञानस्य हेतुत्वे गौरवात् । तादृशपदघटितवाक्यस्थळे शकपदानामेवानुभावकत्वसम्भवात् । न च यत्र सवाणि लाक्षणिकानि पदानि तत्र कथं बोध इति वाच्यम्, शाकसुविभक्ति एव तदुबोधात् । तदभावे तु न शाब्दबोधः, किन्तु पदार्थस्मरणमात्रमिति दिक् ।। -- सम्बन्धं वदन्तीति लक्षणास्वरूपम् । शक्यार्थसम्बन्धप्रतिपादिका शब्दवृत्तिक्षणे.
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२०४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति