पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमो मयुखः । कायमैन्द्रीमुखं पश्य रक्तश्चुम्वति चन्द्रमाः' इत्यादौ परनायिकावृत्तान्तप्रततिः प्रयो- जनम्, तदर्थमेव च ‘मुख चुम्ब्रतीत्यादिलाक्षणिकप्रयोगः । 'अस्पृशतात्यादिग्रयोगे तद प्रतीतेः । तत्र प्रयोजनस्य लक्ष्यलक्षकेतरोदासीननिष्टतया प्रतीयमानत्वमस्ति । एवम्- मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा तस्यां समाकुञ्चिताचि हंसः । तच्छसिते किञ्चन संशयालुगिरा मुखाम्भोजमर्थं युयोज ॥ इत्यादौ स्फुटमेव तटस्थ व्यङ्ग्यम् । अत्र नपुंसकमुखाम्भोजखीरूपवाण्या योजन- कर्तृत्वोत्या नलदमयन्तीयोजने सौम्यं प्रतीयते । तरप्रतीत्यर्थमेव 'युयाजेत्यादि. लाक्षणिक प्रयोगः । 'वाचेति पदात्तदप्रतीनेः । सपदिशति कामिनीनां यौवनमः एव । ललितानि ।' इत्यादौ हेत्वन्तराऽनपेक्षत्वप्रतीनिः प्रयोजनम्, तरवार्थनिष्ठम् । तदर्थे । उपदिशतीत्यस्य उत्पादकत्वे लक्षणा। तत्रापि तटस्थमेव प्रयोजनम् । तेन गूढव्यङ्गया द्विविधा। तटस्थप्रयोजना अर्थगतप्रयोजना चेति । अर्थनिष्टप्रयोजनवती अगढव्यङ्गयापि द्वैधा। लक्ष्येति । लक्ष्यलक्षकपदार्थनिष्ठप्रयोजनकत्वादित्यर्थः। अस्य च प्रयोजनं रूपके।

  • इन्दुर्मुख'मित्यन्नेन्दुपदेन इन्दुतादात्म्यवन्मुखस्य लक्ष्यत्वेन मुखनिष्टोत्कर्षप्रतीतिः

प्रयोजनम् । स च लक्ष्यनिष्ठेव । एG ‘मुखमिन्दुरित्यादौ मुखपदेन मुखतादात्म्यापन्न इन्दुर्लक्ष्यते । तत्र लक्षकं मुखपदम्, तदर्थनिधैवोत्कर्षप्रतीतिः । इयमेव विचक्षण. लक्षणेत्युच्यते । मुखनिष्टोत्कर्ष प्रतीतये मुखपदमिन्द लाक्षणिक विचक्षणैः प्रयुज्यत इति । गूढत्य¥यायो भेदद्वयमाह-अर्थगत्वेति । अर्थगत्वं लक्षकाऽन्यतरनिष्ठत्वम् । तटस्थत्वेति । तटस्थवृत्तित्वमित्यर्थः । गूढव्ययस्य तटस्थवृत्तितया लक्ष्यलक्षक- पदार्थवृत्तितया च गूढव्यङ्या लक्षणा द्विवेत्यर्थः । तत्र तटस्थगृढव्यङ्ग्या यथा- लताऽबलालास्यकलागुरुस्तरुप्रसूनगन्धोत्करपश्यतोहरः ।। असेवताऽमुं मधुगन्धवारिणि प्रणीतलीलाप्लवनो वनाऽनिलः ॥ अत्र महतः स्वल्पचौथे स्नानमात्रेण शुद्धेः, तया च राजसेवायोग्यतायाः प्रतीतिः प्रयोजनम् । तदर्थमेव गुरुगन्धप्लवनपदानां लाक्षणिकानां प्रयोगः । तच्च तटस्थमेव । लक्ष्यलक्षकस्थं गूढव्यङ्ग्यं मुखं विकसितस्मित'मित्यादावुकम् । इयमपि लक्ष्यलक्षकान्यतरपदनिष्ठत्वेन द्वैधाऽवस्या । उपसंहरति-इति अनेन प्रकारेण, व्यक्तितः प्राकट्येन, सा प्रयोजनवती लक्षणा चतुविधेत्यक्षरार्थः । गढव्यङ्ग्यायो भेदद्वय- मगढव्यङ्याया भेदद्वयं चेत्याशयः । लक्ष्यलक्षकनिष्ठत्वं तु प्रासङ्गिकमुक्तम् , न तु भेदायेति । विज्ञेया व्यक्तितः सा च षविधेति पाठे त्वयमर्थः-स्फुटव्ययावत् भेदत्रयवस्वेनाऽस्फुटव्यङ्ग्यान्नैविध्येन प्रयोजनवत्याःषविधत्वम् । एतस्मिन्पचे लक्ष्य- लक्षककृतोऽपि भेदः। तेन गूढव्यङ्या त्रिधा, अगूढव्यङ्गया व बिधेति ॥३-९॥ क्रमेणोदाहरणान्याह- इन्दुरेवैष तद्वक्त्रमुत्कर्षों लक्ष्यते सुखे ॥ ६ ॥ प्रदीपं वर्धयेत्यत्र तटस्थे मङ्गलोदयः । ।