पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमो मयुखः ।। १६१ मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्राळोके महति नवसङ्ख्यः सुखयतु ॥ १० ॥ इति श्रीपीयूषवर्षपण्डितजयदेवइने चन्द्रालोकालङ्कारे लक्षणानिरूपणाख्यो नवमी मयूखः । विश्वेश्वरापराख्येन गागाभट्टेन धीमता । चन्द्रालाकप्रकाशोऽयं मयूखे नवमे कृतः ।। इति मीमांसकगागाभट्टविरचितचन्द्रालोकदीकायां राकागमाख्या नवमो मयूखः । दशमो मयूखः । लक्षणां निरूप्य तदेतृभूत शक्ति निरूपयति-- धर्म कञ्चित् पुरस्कृत्य प्रायः शब्दः प्रवर्तते । यथार्थ स्पष्टमाचष्टे शब्दस्तामभिधां विदुः ॥ १॥ धर्ममिति । यया वृत्या शब्दः साक्षादर्थमाचष्टे साऽभिधा । अव्यवधानेन शब्दजन्यार्थप्रतीत्यनुकूला वृत्तिरभिधेति लक्षणम् । साक्षात्वं च अर्थान्तरप्रतीत्यद्वार कत्वम् । इदं च लक्षणावारणाय । तादृशचेष्टादिवारणायाऽवशिष्टम् । सा च 'अस्मा. त्पदायमर्थों बोद्धव्य इत्याकारिका ईश्वरेच्छेति न्यायविदः । पदार्थान्तरमितिमीमां- सकांः । अस्या एव सईत इति व्यवहारः । साक्षाच्छब्दजन्यार्थप्रतीतिसहकारिज्ञान- विषय व । ननु शकिज्ञानस्य सहकारित्वे किं बीजम् १ अगृहीतशकिकमब्दार्थ प्रत्ययाभाव एवेति गृहाण ॥ १ ॥ स धर्मः षडविधल्तेन घोढा शब्दप्रवृत्तिरित्याह- • जात्या गुणेन क्रियया वस्तुयोगेन संज्ञया ।। निर्देशेन च मन्यन्ते षड्विधामभिधा बुधाः ॥ २ ॥ गौः शुक्लः पाचको दण्डी डिस्थः कंस इति क्रमात् । के संहिनस्ति कंसारिनरं के च समाश्रितम् (१) ॥ ३ ॥ (१) कृष्णः के हन्तीति प्रश्नस्योत्तरम्-'नरमिति । 'समाश्रितमित्यत्र 'सम् आश्रितम्' इति पदच्छेदः । कम् आश्रित ककारेण युके, नर नरकासुरम् अथ च सम् आश्रितं सकारेण युक्तं, के खानुस्वारे ककार, कंसमिति यावत् । श्रीकृष्णो नरकासुर केसचे इतवानित्यर्थः ।। २१