द्योतकत्वमस्मिन्मते बोध्यम्। ‘डीबादीनामेव वाचकत्वमित्यपि केचित्। यद्वाजातिव्यक्तिलिङ्गसंख्या इति चतुष्कं प्रातिपदिकार्थः। यद्वा-कारकमपि प्रातिपदिकार्थ इति पञ्चकं प्रातिपदिकार्थः। 'दधि पश्येत्यादौ प्रातिपदिकादेव तत्प्रत्ययात्। एवञ्च–विभक्केद्यतकत्वमात्रम्। तेनैव च नामार्थप्रकारकशाब्दबोधे सुवादिजन्योपस्थितेहँतुत्वनिर्वाह इति दिक्। एतच्च सर्व महाभाष्ये सरूपाणामेकशेष' इति सूत्रे स्पष्टम्।।
आलङ्कारिकास्तु-षट्के प्रातिपदिकार्थः। “विषयत्वमनादृत्य शब्देनार्थः प्रकाश्यते। इति मतावष्टम्भेन पञ्चके प्रातिपदिकार्थः, परन्तु शब्दस्यापि प्रातिपदिकार्थत्वात् षट्के प्रातिपदिकार्थः। तथा हि-गासुचारयेत्यादिलौकिकप्रयोगे ‘कवतीषु रथन्तरं गायतीश्यादिवैदिकप्रयोगे च शब्दोऽपि भासत इति निर्विवादम्। वृत्तिविषय एवं शाब्दबोधे विषय इति च नियमः। तथा च-शब्दस्यापि शब्दशक्तिविषयतया भानमङ्गीकार्यम्। तत्र घटादिपदे शब्दनिरूपितापि शक्तिर्भिन्ना कल्यतः इति केचित्। अन्ये तु-शक्तिविषयोऽर्थी भासते। शक्तिविषयत्वं च-आश्रयतानिरूपकतासम्बन्धेन शक्तिमत्वम्। तथाच-अर्थशक्तिज्ञानेनैव पदस्यापि भानम्। तेन घटादिपदाना शक्तिसम्बन्धेन घटत्वादिवत् पदमपि शक्यम्। एतावास्तु विशेषः यत् सम्बन्धस्योभयनिरूप्यत्वेन सम्बन्धिद्वयोपस्थापकत्वाविशेषाद् घटत्वोच्चवच्छिन्नशक्त्यैव घटत्वादिवच्छब्दस्यापि। तयैव वृत्त्योपस्थितौ सत्यामर्थबोधे तात्पर्ये सति तत्र विशेषणतया स शब्दो भासते। तत्रापि घटत्वादिरूपेण विशिष्यशकिग्रहवत वटजात्युभयप्रकारको बोधः। नळयुधिछिरादिपदवद् विशिष्यशक्तिमहाभावे तु शब्दव्यक्तिविशेष्यकः केवलं पदप्रकारको नलपदवाच्यः कश्चिदित्याकारको बोधः। यत्र तुकोदाहरणेषु शब्दमात्रे तात्पर्यम्, तदा तयैव शक्त्या शब्दस्वरूपस्य प्राधान्येन भानमिति। एवञ्च क्वचित्तात्पर्यवशात् शब्द एव प्राधान्येन भासते क्वचित्तदभावेऽर्थविषयत्वेनेति सिद्धम्। अत एव‘अग्निहोत्रं जुहोतीत्यादौ नामार्थविशेषणत्वेनाऽन्वयादग्निहोत्रनामकेनेति बोधः। एतेनाऽग्निहोत्रनामके निरूढलक्षणेति निरस्तम्। अनुपपत्यभावात्। मत्वर्थे लक्षणातौल्येन सिद्धान्ताऽनुदयाच्च। अतः शब्दोऽपि वाच्यः। एवञ्च–
- "उदेति सविता ताम्रस्ताम्र एवास्तमेति च।
- सम्पत्तौ च विपत्तौ च महतामेकरूपता॥
इत्यादौ 'रक्त एखास्तमेति' इति यदा क्रियते तदा पदान्तरप्रतिपादितः स एवार्थोऽन्तरतयेव प्रतिभासत इति काव्यप्रकाशोक्तिः सङ्गच्छते। अतः षटकं प्रातिपदिकार्थ इति दिक्। तदुत्वम्–
- ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा।
- तथैव सर्वशब्दानामेते पृथगवस्थिते॥
इति। सुबूविभीनामष्यभिहितकर्तृककर्माभिधायिनी प्रथमेति केचित्। 'प्रतिपदिको प्रश्नमा' इत्यन्ये। कर्तृत्वं च यत्नाश्रयत्वम्। यत्नवाधिकाऽश्रयवाचितूचा च